India Languages, asked by kumarsushantpatna, 3 months ago

1.गद्यांशं पठित्वा अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत।
एकदा केचन् शिष्याः भिक्षाटनं कुर्वन्ति स्म । तदैव एकः गजः महता वेगेन तस्मिन् मार्गे आगच्छत् । गजस्य उपरि उपविष्ट : हस्तिपकः उच्चस्वरेण पुनः पुनः घोषयति स्म - अपसरन्तु इति । सर्वे शिष्या : धावितवन्तः यतः सर्वेषु वस्तुषु ईश्वरःअस्ति तथा गजे अपि इविचिन्त्य एकः शिष्यः तत्रैव स्थितवान् । तावति काले गजः तं स्वशुण्डया गृहीत्वा दूरे क्षिप्तवान् । शिष्याः मूर्छितम् तम् गुरुकुलम् अनयन् । लब्धसंज्ञम् तं गुरु : अपृच्छत - वत्स ! त्वम् एवम् किमर्थम् आचरः इति । शिष्यः अवदत्- गुरुवर्य ! भवदभिः एव शिक्षितं यत् ईश्वरः सर्वेषु अस्ति अत : अहम् गजे अपि ईश्वरं मत्वा तत्र अतिष्ठम् इति । गुरुः उक्तवान् वत्स ! यथा गजे तथा हस्तिपके अपि ईश्वरः इति कथं न चिन्तितम् इति ।

(i)कोष्ठकात् पदं चित्वा एकपदेनुत्तरत
(क) गज : कम स्वशुण्डया गृहीत्वा प्रक्षिपत् ?
( हस्तिपकम्/ शिष्यम् )
(ख) अपसरन्तु अपसरन्तु इति कःघोषयति स्म ?
( हस्तिपकः / शिष्यः )

(ii)पूर्णवाक्येनुत्तरत
(क)यदा गजः आगतः तदा शिष्याः किम् कुर्वन्ति स्म ?
(ख) शिष्यः कुत्र संज्ञाम् अलभान् ?
(ग) कस्मिन् ईश्वर विचिन्त्य शिष्यः तत्रैव स्थितवान् ?
(घ) ' तस्मिन् एव समये ' इत्यस्मै अनुच्छेदे किम् पदम् प्रयुक्तम् ?

(iii) यथानिर्देशमुत्तरत ।
(क)' वेगेन ' इतिपदस्य विशेषणपदम् किम् ?
(ख) ' अपसरन्तु इत्यस्य कर्तृपदम् लिखत ?
(iv)कथायाः समुचितं शीर्षकं लिखत । ​

Answers

Answered by bhoomij1405
2

1 क शिष्यम्

ख हस्तिपकः

क महता

Similar questions