10 line on Mahatma Gandhi in Sanskrit
Answers
Answer:JkshahlicExpert
Know the answer? Add it here!
purushottam12
Purushottam12Genius
महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्यपोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थानेपोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम्अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।
: