10 line on sankranti in sanskrit
Answers
Answer:
कस्यापि राष्ट्रस्य जनानां यः साधारणतया परिष्कृतो विशुद्ध उत्तम आचारो व्यवहारश्च भवति स एव तस्य राष्ट्रस्य संस्कृतिरुच्यते । भारतीयसंस्कृतेरिदं वैशिष्ट्य यत् प्राचीनकालादेव या संस्कृतिरत्र पल्लविता सँवाधुनापि अक्षुण्णाऽत्र दृश्यते । अस्ति अस्यां संस्कृतौ किञ्चिदेवंविधं यद् उत्कृष्टतमं यच्च न कदापि क्षयि । अस्याः संस्कृतेः उदात्तत्वदर्शनं न केवलं संस्कृसाहित्ये एव भवति, अपितु ग्रामे ग्रामे नगरे नगरे लोकजीवने च भवति । अहिंसासत्यास्तेयादिधर्मास्तादृशा एव । समन्वयो हि भारतीयसंस्कृतेर्मूलतत्त्वम् । अस्मादेव कारणादत्र बढ्यो वैदेशिक्यः संस्कृतयः समायाताः परन्तु ताः सर्वा एव भारतस्य संस्कृती विलीनाः । भारतीयधार्मिककृत्यानां भारतीयपूजाविधीनां च तादृशमस्ति स्वरूपं यत्तत्र प्राचीनावाचीनयोः पौरस्त्यपाश्चात्ययोश्च ससुखं सम्मेलनं सम्भाव्यते । भारतस्य विविधेषु प्रदेशेषु विविधा जनाः विविधवेषधारिणो विविधभाषाभाषिणोऽपि विविधदेवान् पूजयन्तोऽपि हृदये समाना एव । सर्व एव एकमेव परमेश्वरं मन्यन्ते, सर्वेषु तीर्थेषु सर्वेषां समानादरो दृश्यते गङ्गा सर्वेषामेव पूज्यतमा, गां च सर्व एव मातरं मन्यन्ते । सर्वत्र विवाहादिसंस्कारेषु त एवं वैदिकमन्त्री उच्चार्यन्ते । अमर्तमनादिमनन्तं परमम् आत्मानं सर्व एव जना विश्वस्य आधारभूतं मन्यन्ते । मद्यधूतादिव्यसनानि सकले भारते निन्द्यन्ते । कर्मफलानुसारेण पुनर्जन्मनि सर्वत्रैव विश्वासो दृश्यते ।।
please make it brainliest