History, asked by uttamkumar48, 1 year ago

2. जीवनवृत्त लेखन (कालिदास)
(1) कविकुलगुरुं कालिदासम् अस्मिन्युगे को न जानाति ।
(2) विद्वििद्भः विश्वस्य साहित्यकारेषु अस्य गणना कृता।
(3) बहवः विद्वांसः उज्जयिन्यामेव अस्य जन्मभूमि मन्यन्ते ।
(4) उक्तम् च-"विक्रमादित्यस्य नवरत्लेषु कालिदासः एकः।"
(5) कथ्यते-कालिदासः महामूर्खः आसीत्।
(6) तस्य भार्या नाम विद्योत्तमा आसीत् ।
(7) सा विदुषी आसीत्।।
(8) सा कालिदासस्य अपमानं कृत्वा गृहात् निष्कासितवती।
(9) कालिदासः खिन्नो भूत्वा देवीम् अराधयत्।
(10) तदनुग्रहेण स: महान् विद्वान् अभवत् ।
(11) कालिदासेन चतुर्णा ग्रन्थानां रचना कृता ।
(12) कालिदासेन मुख्या: सप्तग्रन्थाः विरचिताः।
(13) एतेषु द्वे महाकाव्ये रघुवंशमहाकाव्यं कुमारसम्भवञ्च, द्वे खण्डकाव्ये मेघदूतं ऋतुसंहारञ्च ।
(14) त्रीणि नाटकानि अभिज्ञानशाकुन्तलं, विक्रमोर्वशीयं मालविकाग्निमित्रस्च।
(15) तेषु अभिज्ञानशाकुन्तलं श्रेष्ठतमा रचनाऽस्ति। हिन्दी अनुवाद​

Answers

Answered by krishgaur12345
5

Answer:

Get it from youtube iy can help you more

Answered by Rameshjangid
0

Answer:

उत्तराखंड के रूद्रप्रयाग जिले के कविल्ठा गांव में हुआ था.

Explanation:

Step : 1कविकुलगुरुं कालिदासम् असिमन्युगे को न जानाति। विद्वद्भिभि: विश्वस्य साहित्यकारेषु अस्य गणना कृता। बहव: विद्वांस: उज्जयिन्यामेव अस्य जन्मभूमिं मन्यन्ते। अनेनैव हेतुना तस्य कृतिषु उज्जयिन्या: वर्णनं सझ्जातम्। उक्तम् च- "विक्रमादित्यस्य नवरत्नेषु कालिदास: एक:"।

Step : 2कथ्यते-कालिदासः महामूर्खः आसीत्। राज्ञः शारदानन्दस्य विद्योत्तमा नाम्नी एका विदुषी कन्या आसीत्। सा स्वविद्यया अतिदर्पशीला आसीत्। सा प्रतिज्ञातवती यत् शास्त्रार्थ यः मां पराजेष्यति, तेन सह विवाहं करिष्यामीति। तां प्रतिज्ञां श्रुत्वा बहव: विद्वांसः आगच्छन् तया सह शास्त्रार्थे सर्वे पराजिता: अभवन्। ईर्ष्यावशात् ते राजकन्याया: विवाहं महामूर्खेण सह सम्पादयितुं व्यचारयन्। ते मूर्खस्य अन्वेषणार्थ निर्गताः। सहसा कस्यचिद् वृक्षस्य शाखायां स्थित्वा तां शाखां कर्तयन्तम् एकं मूर्खम् अपश्यन्। तस्मात् वृक्षात् अधः अवतीर्य ते अवदन् तं भो पुरुष! वयं परमसुन्दर्या राजकन्यया सह तव विवाहं कर्त्तुमिच्छामः। वयं स्वगुरुरुपेण तव परिचयं दास्याम: परम् त्वं किमपि न वक्ष्यसि। तं मूर्ख नीत्वा विद्वांसः राजकन्यायाः समीपम् आगतवन्तः अवदन् च। एषोऽस्माकं गुरुः सकलशास्त्रपारङ्रतः विद्वान् चास्ति परन्तु सम्प्रति मौन-व्रतं धारयति। तदा राजकन्या विद्योत्तमा एकाम् अड्गुलिकाम् उत्थाय दर्शितवती. यस्यार्थ: एको ब्रह्म द्वितीयो नास्ति। तां दृष्ट्वा महामूर्खः कालिदासः व्यचारयत्। एषा मम एकं-नेत्रं स्फोटयितुम् इच्छति अहं तु तव द्वे नेत्रे स्फोटयिष्यामि इति मत्वा स्वकीये द्वे अड्गुलिके दर्शितवान्। अन्ते राजकन्या पराजिता सझ्जाता। पश्चात् कालिदासेन सह विद्योत्तमाया: परिणयः जातः ।

Step : 3एकदा रात्रौ उष्ट्रस्य ध्वनिःअभवत्। ध्वनिं श्रुत्वा तस्य भार्या अयं ध्वनिः केन कृतः इति अपृच्छत्। कालिदासेन उष्ट्रशब्दस्य स्थाने उट्र इति शब्द: उच्चारितः विद्योतमा ज्ञातवती यत् एष: मूर्ख: अस्ति। सा कालिदासस्य अपमानं कृत्वा गृहात् निष्कासितवती। कालिदास: खिन्नो भूत्वा देवीम् अराधयत् । तदनुग्रहेण स: महान् विद्वान् अभवत् यदा कालिदास: ज्ञानं प्राप्य गृहं प्रत्यावर्तत तदा द्वारं पिहितम् आसीत्। सः अकथयत्- "अनावृतकपाटं द्वारं देहि।" भार्या अपृच्छत्- "अस्ति कर्चिद्वाग्विशेषः?" कालिदास: स्वप्रतिभाया: पत्नीम् अतोषयत्। पत्या: शब्दत्रयम् आश्रित्य कालिदास: त्रयाणां-काव्यानां रचनामकरोत्।

Step : 4यथा-अस्ति इति शब्देन कुमारसम्भवम्- अस्त्युतरस्यां दिशि देवतात्मा, कश्चित्इति शब्देन मेघदूतम् -"कश्चित् कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्त:" तथा वाक् इति शब्देन-रघुवंश महाकाव्यम्"वागर्थाविवसम्पृक्तो'। तदनन्तरं कालिदासेन चतुर्णां ग्रन्थानां रचना कृता। कालिदासेन मुख्या: सप्तग्रन्था: विरचिता: । एतेषु द्वे महाकाव्ये रघुवंशमहाकाव्यं कुमारसम्भवग्च, द्वे खण्डकाव्ये मेघदूतं ऋतुंसंहारञ्च। त्रीणि नाटकानि अभिज्ञानशाकुन्तलं, विक्रमोर्वशीयं मालविकार्निमित्रञ्च। तेषु अभिज्ञानशाकुन्तलं श्रेष्टतमा रचनाऽस्ति। जर्मनकवि: गेटे महोदयेन अस्य काव्यस्य प्रशंसा कृता। अस्य ग्रन्थस्य विषये एका सूक्ति: प्रचलिता

"काव्येषु नाटकं रम्यं तत्र रम्या शकुन्तला"

Step : 5कालिदासस्य भाषा अलङ्कारिकी अस्ति। उपमा अलङ्करस्य प्रयोगे स: प्रवीणोऽस्ति। उक्तं च- "उपमा कालिदासस्य" एतेषु काव्येषु प्रकृतेः मनोहराणि चित्राणि लक्ष्यन्ते। तस्य प्रकृतेः अनुरागः आसीत्।

Step : 6कविकुलशिरोमणिमहाकविकालिदासस्य काव्यरचना विश्वस्य निधि: इति मन्यन्ते जनाः। अधुना महाकविकालिदासः पार्थिवशरीरेण नास्ति तथापि यशःकायेन विद्यते। विद्वांसः कथयन्ति जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः।

नास्ति येषां यश:काये जरामरणजं भयम्।।

To learn more about similar question visit:https://brainly.in/question/12173255?referrer=searchResults

https://brainly.in/question/15930791?referrer=searchResults

#SPJ3

Similar questions