(25)
सूक्ति-सुधा
(शिक्षाप्रदाः श्लोकाः)
पिता धर्मः पिता स्वर्गः, पिता हि परमं पदम्।
पितरि प्रीतिमापन्ने, प्रीयन्ते सर्वदेवताः ।।1।।
नमन्ति फलिनो वृक्षाः, नमन्ति गुणिनो जनाः।
शुष्कवृक्षाश्च मूर्खाश्च, न नमन्ति कदाचन ।।
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः।
चत्वारि तस्य वर्धन्ते आयुः विद्या यशो बलम्।।
विद्या ददाति विनयम्, विनयाद् याति पात्रताम्।
पात्रत्वाद् धनम् आप्नोति, धनाद्धर्मं ततः सुखम् ॥
उत्सवे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसंकटे।
राजद्वारे श्मशाने च, यः तिष्ठति स बान्धवः ।।।
वाणी रसवती यस्य, यस्य श्रमवती क्रिया।
लक्ष्मीः दानवती यस्य, सफलं तस्य जीवितम्।।
सत्यं ब्रूयात्, प्रियम् ब्रूयात, न ब्रूयात् सत्यमप्रियम्।
प्रियं च नानृतं ब्रूयात्, एष: धर्मः सनातनः ।।7।।
धृतिः क्षमा दमोऽस्तेयम्, शौचमिन्द्रियनिग्रहः।
धीः विद्या सत्यमक्रोध: दशकं धर्मलक्षणम् ॥४॥
Answers
Answered by
0
Answer:
ㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤㅤ
Similar questions