5 lines on vijayadashami in sanskrit
Answers
Answer :विजयादशमी भारतीयानां पवित्रं पर्व भवति । एतत् पर्व आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ सम्पाद्यते । इयं तिथि : विजयसूचिका मन्यते । अस्मिन् दिवसे श्रीरामः रावणस्य निधनं कृत्वा विजयं प्राप्तवान् । अस्मिन्नेव दिवसे दुर्गा शुम्भ निशुम्भं च अमारयत् । एतत् दिनं विजयेन सम्बन्धितमस्ति । अतः एतत् दिनं विजयादशमी नाम्ना प्रसिद्धम् । यद्यपि अयमुत्सवः आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ मन्यते , तथापि उत्सवात् दशदिनपूर्वमेव रामकथायाः रामलीलायाः संकीर्तनादीनां च आयोजनं भवति । जनाः उत्साहन रामलीलां पश्यन्ति । दशम्यां तिथौ रावणकुम्भकर्ण - मेघनादानां अग्निसंयोगः क्रियते । सायंकाले रामलीलाक्षेत्रे लोकानां विपुलः समागमः भवति । तस्मिन् समये रामस्य लक्ष्मणस्य हनुमतः च वेशेन कलाकाराः तत्र आगच्छन्ति । हनुमान् च दशहरास्थानमागच्छति । हनुमता कृत्रिमा लंका दह्यते । उपस्थिताः जनाः श्रीरामस्य जयध्वनिं कुर्वन्ति । अयमुत्सवः अधर्मस्य उपरी धर्मस्य , असत्यस्य उपरि सत्यस्य , दुर्जनतायाः उपरि सज्जनतायाः विजयस्य प्रतीकमस्ति । वस्तुतः एषः उत्सवः परमपावनः अस्ति