5 lines on virat Kohli in Sanskrit
Answers
Answered by
3
विराट् कोहली ( ( शृणु) /ˈvɪrɑːt koʊhəliː/) (हिन्दी: विराट कोहली, आङ्ग्ल: Virat Kohli) भारतदेशस्य क्रिकेट-क्रीडायाः कश्चित् क्रिडापटुः । तेन अनेके पुरस्काराः प्राप्ताः । तेषु अर्जुनपुरस्कारः, 'पीपल्स् चाय्स्'-पुरस्कारः च अन्तर्भवतः । एषः २००८ तमे वर्षे भारतस्य एकोनविंशतिवर्षेभ्यः लघुवयस्कानां क्रिकेट्-दलस्य नायकः आसीत् । तस्य नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तथा च 'इण्डियन् प्रिमियर् लीग्'-क्रीडायां 'रोयल् चेलेन्जरस् बैंगलोर'-नामकस्य दलस्य नायकः आसीत् एषः । विराट् भारतस्य लोकप्रियः क्रीडालुः वर्तते । क्रिकेट्-क्रीडा इव टेन्निस्-क्रीडा अपि तस्मै बहु रोचते । तस्य प्रियक्रीडापटुः राजर् फेडरर् वर्तते [१] । प्रथमश्रेण्याः क्रिकेट-क्रीडायां विराट् देहली-दलस्य प्रतिनिधित्वं करोति ।
Similar questions