India Languages, asked by AaryanIgle, 8 months ago

8. अधोलिखितं चित्रं वर्णयन् संस्कृतेन पञ्चवाक्यानि लिखत
मञ्जूषा
ईसामसीहः, जन्म, दिसम्बरमासस्य, केक इत्याख्यं मिष्टान्नम्, नूतनवस्त्राणि, गिरिजागृहम,
उपासनापद्धतिः, शैत्यम्, सिक्थवर्तिका, सान्ताक्लॉज इति, उपहारणि, वाञ्छन्ति

Answers

Answered by bakanmanibalamudha
3

Explanation:

एतस्य काव्यस्य रचयिता अस्ति श्रीरामभद्राचार्य: । (1740-1904) कोयम्बत्तूरुसमीपे ‘सुन्दपालयम्’ ग्रामे तस्य जन्म । तेन 25 अधिका: कृतय: रचिता: । तासु बह्व्य: पूजा-सम्प्रदायादि-सम्बद्धा: । तस्य अपूर्वप्रतिभाया: निदर्शकम् अस्ति ‘चित्रकाव्यम् ।’ चित्रकाव्ये चमत्कृति: विशेषत: भवति, या च सामान्यान् जनान् रञ्जयति विशेषेण । किन्तु काव्यशास्त्रज्ञा: आनन्दवर्धनादय: एतस्य प्रकारस्य अप्राधान्यं मन्यन्ते । रसधाराम् अवलम्ब्य ते काव्यस्य स्तरं निश्चिन्वन्ति । चित्रकाव्यादय: सकृत् पठनेन अवगता: न भवन्ति । अर्थावगमार्थं पौन:पुन्येन श्लोका: परिशीलनीय: भवति । क्वचित् व्याख्यानं विना श्लोकस्य अर्थ: एव न अवगम्यते । एतस्य सर्वस्य कारणत: काव्यपठनावसरे अनुस्यूततया प्रवहन्त्या: रसधाराया: विच्छित्ति: सहजा एव खलु ? एवम् एतानि रसभङ्गकारणानि इत्यत: एतेषाम् अप्राशस्त्यं कल्प्यते काव्यमर्मज्ञै: । वयं तु न रसधारायां निमज्जनं कर्तुम् उद्युक्ता: । चमत्कृतौ एव अस्माकम् आसक्ति: । एतम् अंशं मनसि निधाय ग्रन्थस्था: केचन श्लोका: उदाह्रियन्ते भवतां मनोविनोदाय ।

Similar questions