अग्रिमदिने प्रातः काले षट्वादने एव मालिन्याः गृहघण्टिका आगन्तारं कमपि
सूचयति मालिनी द्वारमुद्घाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह
एका अष्टवर्षदेशीय, बालिका तिष्ठति)
दर्शना – महोदये! भवती कार्यार्थं गिरिजामहोदयां पृच्छति स्म कृपया मम सुतायै
अवसरं प्रदाय अनुगृह्णातु भवती।
मालिनी – परमेषा तु अल्पव्यस्का प्रतीयते। किं कार्यं करिष्यत्येषा? अयं तु अस्याः
अध्ययनस्य क्रीडनस्य च कालः।
दर्शना – एषा एकस्य गृहस्य संपूर्णं कार्य करोति स्म। सः परिवारः अधुना विदेशं
प्रति प्रस्थितः। कार्याभावे अहमेतस्यै कार्यमेवान्वेषयामि स्म येन भवत्सदृशानां कार्यं
प्रचलेत् अस्मद् सदृशानां गृहसञ्चालनाय च धनस्य व्यवस्था भवेत् ।
मालिनी – परमेतत्तु सर्वथाऽनुचितम्। किं न जानासि यत् शिक्षा तु सर्वेषां बालाकानां
सर्वासां बालिकानां च मौलिकः अधिकारः।
१. एकपदेन उत्तरत-
(क) का द्वारमुद्घाटयति ?
(ख) दर्शनायाः पुत्री कति वर्षीया आसीत्?
Answers
Answered by
1
Answer:
१)मालिनी द्वारमुद्घाटयति पश्यति यत् गिरिजायाः सेविकया दर्शनया सह
२)अष्टवर्षदेशीय
Explanation:
HOPE MARK BRAINLIEST
THANKS again
Similar questions