।
अमृतस्य प्रवाहैः किं कायक्षालनसम्भवैः ।
चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥ 6 ॥
Answers
Answer:
तच्छ्रुत्वा हिरण्यकस्तत्क्षणादेव तदुपरि समारूढः । सोऽपि शनैः शनैस्तमादाय सम्पातोड्डीनप्रस्थितः क्रमेण तत्सरः प्राप्तः । ततो लघुपतनकं मूषकाधिष्ठितं विलोक्य दूरतोऽपि देशकालविदसामान्यकाकोऽयमिति ज्ञात्वा सत्वरं मन्थरको जले प्रविष्टः । लघुपतनकोऽपि तीरस्थतरुकोटरे हिरण्यकं मुक्त्वा शाखाग्रमारुह्य तारस्वरेण प्रोवाच भो मन्थरक ! आगच्छागच्छ । तव मित्रमहं लघुपतनको नाम वायसश्चिरात्सोत्कण्ठः समायातः । तदागत्यालिङ्गय माम् । उक्तं च
किं चन्दनैः सकर्पूरैस्तुहिनैः किं च शीतलैः ।
सर्वे ते मित्रगात्रस्य कलां नार्हन्ति षोडशीम् ॥२.६०॥
तथा च
केनामृतमिदं सृष्टं मित्रमित्यक्षरद्वयम् ।
आपदां च परित्राणं शोकसन्तापभेषजम् ॥२.६१॥
तच्छ्रुत्वा निपुणतरं परिज्ञाय सत्वरं सलिलान्निष्क्रम्य पुलकिततनुरानन्दाश्रुपूरितनयनो मन्थरकः प्रोवाच एह्येहि मित्र, आलिङ्गय माम् । चिरकालान्मया त्वं न सम्यक्परिज्ञातः । तेनाहं सलिलान्तःप्रविष्टः । उक्तं च
यस्य न ज्ञायते वीर्यं न कुलं न विचेष्टितम् ।
न तेन सङ्गतिं कुर्यादित्युवाच बृहस्पतिः ॥२.६२॥
एवमुक्ते लघुपतनको वृक्षादवतीर्य तमालिङ्गितवान् । अथवा साध्विदमुक्तम्
अमृतस्य प्रवाहैः किं कायक्षालनसम्भवैः ।
चिरान्मित्रपरिष्वङ्गो योऽसौ मूल्यविवर्जितः ॥२.६३॥
एवं द्वावपि तौ विहितालिङ्गितौ परस्परं पुलकितशरीरी वृक्षादधः समुपविष्टौ प्रोचतुरात्मचरित्रवृत्तान्तम् । हिरण्यकोऽपि मन्थरकस्य प्रणामं कृत्वा वायसाभ्याशे समुपविष्टः । अथ तं समालोक्य मन्थरको लघुपतनकमाह भोः हिरण्यको नाम मूषकोऽयम् । मम सुहृद्द्वितीयमिव जीवितम् । तत्किं बहुना
पर्जन्यस्य यथा धारा यथा च दिवि तारकाः ।
सिकतारेणवो यद्वत्सङ्ख्यया परिवर्जिता ॥२.६४॥
गुणाः सङ्ख्यापरित्यक्तास्तद्वदस्य महात्मनः ।
परं निर्वेदमापन्नः सम्प्राप्तोऽयं तवान्तिकम् ॥२.६५॥
मन्थरक आह किमस्य वैराग्यकारणम् ?
वायस आह पृष्टो मया, परमनेनाभिहितं, यद्बहु वक्तव्यमिति । तत्तत्रैव गतः कथयिष्यामि । ममापि न निवेदितम् । तद्भद्र हिरण्यक ! इदानीं निवेद्यतामुभयोरप्यावयोस्तदात्मनो वैराग्यकारणम् ।
सोऽब्रवीत्
Explanation: