India Languages, asked by rishavraj9801087730, 1 year ago

an essay on kalidas in sanskrit laguage

Answers

Answered by Saanvipriya
3
कालिदासः (Kalidas ):

साहित्यलोके असंख्याः कवयः वर्तन्ते इति जानीमः । किन्तु तेषु अत्यल्पानामेव कविताः अहं पठितवान् । तथापि मनसि प्रविष्टानां कवीनां मध्ये कालिदासमहाकविः मम प्रियतमः । तस्मै आसन्दः किञ्चिदुन्नतस्थाने एव मया कल्पितः अस्ति । कारणं किमिति स्पष्टतया अहमपि न जानामि । संस्कृतपठनं यदा आरब्धवान् तथा आरभ्य कालिदासनाम शुणोमि स्म । किन्तु तदा तावत् श्रध्दा नासीत् ।
एतस्य अन्तिमं पादं मह्यं बहु अरोचत । अहं तत् प्रत्यक्षमुक्तवान् च । तदा अध्यापकः कालिदासकथां आरम्भतः अवसानपर्यन्तं बहुदिनैः उक्त्वा समापितवान् । तदानीम अहं ज्ञातवान् यत् ट्ण्डंटडण्डं टडडण्डडण्डम् इत्यादयः बहवः श्लोकाः सन्तीति । कालिदासविषये मम जिज्ञासां दृष्ट्वा गुरुः द्वित्रपुस्तकानि मह्यं दत्तवान् । तदहं शीघ्रमेव पठित्वा प्रत्यर्पितवान् च । तदानीं गुरुः उक्तवान् यत् अन्यः कालिदासमधिकृत्य किं वदति इत्यपेक्षया स्वयं कालिदासं पठति चेदेव उक्तमम् इति । ततः आरभ्य गुरोः साहाय्येन कालिदासकृतीः पठितुम् आरब्धवान् ॥
भिन्नभिन्नपुस्तकपठनतः अहं ज्ञातवान् यत् कालिदासस्य कालं, जन्मस्थानं किमधिकं कृतिः च अधिकृत्य पण्डितानां समानाभिप्रायः नास्तीति । तथापि कालिदासः उज्जयिन्यां षष्टशतके जातः इति सामान्याङ्गीकारः अस्ति च । एतत् सर्वं पठित्वा मम एवमभासत कालिदासः जनिं न प्राप्तवान् इति इतिहासकाराः वदन्ति चेदपि तस्य अस्तित्वं न नश्यति यावत् एकः श्लोकः जीवति । अत एव कालिदासस्य देशकालादिविषये चर्चाकरणसमयेन द्वित्रान् वा श्लोकान् पठति चेत् वरम् । तदानीं विक्रमादित्यसदसि नवरत्नेष्वन्यतमःकालिदासः भोजराजेन सह सल्लापं कुर्वन् प्रत्यक्षीभवति ॥
Similar questions