अस्य पर्यायाः सन्ति। अस्य जगतस्य प्रकाशक: भास्करः अस्ति। अस्योदये तमः नश्यति। अस्य प्रकाशे एव वयं वस्तूनि द्रष्टुम् शक्नुमः। भास्करस्योदये दिनम् भवति, तस्मिन्नस्ते च रात्रिर्जायते। यदि भास्करः न स्यात् तर्हि दिनमेव न भवेत् । दिनाभावे तु वयं सर्व अन्धः इव भवेम। दीपकानां प्रकाशे तु जगतः सर्व व्यवहाराः भवितुं न शक्नुवन्ति । भास्करस्याभावे तु सर्वत्र शैत्यमेव भवेत। सति शैत्ये जीवनोषधीनां चोत्पत्तिरेव न स्यात्। एवञ्च संसारस्य स्थितिरेव न स्यात्। पश्याम एवं वयं यत् उत्तर-दक्षिणयोः ध्रुव-प्रदेशयोः भास्करस्य दर्शनं दुर्लभं भवति। अतएव तयोः प्रदेशयोः प्रायः सर्वत्र सर्व वर्षं हिममेव तिष्ठति। तस्मादेव कारणात् तत्राल्पाः एव जनाः निवसन्ति, तथा स्वल्पाः एव पादपाः ओषधयः च जायन्ते। फलानामन्नानां तु तत्राभाव एव तिष्ठति। ऋतुनामपि जनक: भास्करः अस्ति। यदा भास्करः उत्तरायणो भवति तदा तस्य प्रकाशः ऊष्मा च तीव्रौ भवतः। तयोः आधिक्यमेव वसन्तुर्तु ग्रीष्मर्तु चोत्पादयतिः । ग्रीष्मकालस्यातपेन समुद्राणां, नदीनां, सरसां च पयांसि उद्वाष्पितानि भूत्वा आकाशे गच्छन्ति। ततश्च मेघाः जायन्ते । एभिः मेघैरेव वर्षा भवन्ति। वर्षाभिरेव विविधान्यन्नानि, शाका: पादपाः च भवन्ति।यदा भास्कर: दक्षिणायनो भवति तदा तस्य प्रकाशो मन्दो जायते । एतस्मिन्नेव काले शरदधेमन्त शिशिराणामृतूनां स्थितिर्भवति। एवं भास्कर: दिनानां, रात्रीणाम् ऋतुनां च जनक: कथ्यते। ऋतुनां परिवर्तनेनैवास्य जगत: स्थितिः भवति। भगवान् भास्करः हि अस्मभ्यं जीवनं दत्वा महत् उपकरोति। अतएव वयमेतं भगवन्तं कथयामः। can anyone translate this in english or hindi
Answers
Answered by
3
refer to the attachment
Answer:
.
Attachments:
Similar questions