अथापरेद्युः राज्ञो राजधानी प्रति प्रस्थानोत्सुकस्य पुरतः कश्चित् शस्त्राहतः श्रमक्लान्त
पुरुषः आश्रममागतः। तस्य कष्टं विलोक्य दयाो मुनिर्यथासाध्यं तस्योपचारे प्रवृत्त
राजापि तादृशस्य आतुरस्य दशया विकल इव मुनेस्तस्मिन् कार्ये तदादेशेन सहायत
चकार। कतिपयैरेव दिवसैरागन्तुको मुनेः राज्ञश्चोपचारेण स्वस्थो जातः।
स च राजानमुवाच- मया केनापि कारणेन क्रोधाविष्टेन राजैव हन्तव्य आसीत
किन्तु मद्विचारस्य प्रकाशनाद् राजपुरुषाः मां भृशमताडयन् बन्दीकृतवन्तश्च
यथाकथमपि अत्र निरापदमाश्रममागतोऽस्मि पलायमानो बन्धनात्। अधुना भवतो
व्यवहारेण कोपो मे गलितः। क्षन्तव्योऽयं वराको जनः। आज्ञापयतु महाराजः।
अथ राजानं मुनिरुवाच-“मन्ये भवदीयस्य प्रश्नत्रयस्य समाधानमस्य जनस्य
परिवर्तितमानसस्य सेवयैव जातम्। मुनिः पुनरपि विशदीकुर्वन्नकथयत्- अयमेव
श्रेष्ठः समयः यत्र मानवः परोपकारे कस्मिन्नपि कर्मणि वा व्यापृतः। समक्षं वर्तमानः
पुरुष एव श्रेष्ठः कस्यापि सहायतां कामयमानः। सेवैव श्रेष्ठं कर्म येन हृदयपरिवर्तनमपि
जायते।" राजा मुनेरुत्तरप्रदानपद्धत्या प्रमुदितः भूत्वा स्वनगरं गतः।
Answers
Answered by
0
Answer:
iiroeeiwddoeodofodkeekdodmdkdkdkdodrrodkof
Similar questions