India Languages, asked by manjudevi4824, 4 months ago

अधोलिखितं गद्यांशं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

पुरा एकस्मिन् वृक्षे एका चटका प्रतिवसति स्म। कालेन तस्याः सन्ततिः जाता । एकदा कश्चित् प्रमत्तः गजः तस्य वृक्षस्य अधः आगत्य तस्य शाखां शुण्डेन अत्रोटयत् । चटकायाः नीडं भुवि अपतत् । तेन अण्डानि विशीर्णानि । अथ सा चटका व्यलपत् । तस्याः विलापं श्रुत्वा काष्ठकूट: नाम खगः दु:खेन ताम् अपृच्छत्-" भद्रे, किमर्थं विलपसि?" इति। 
चटका अवदत्-" एकेन दुष्टेन गजेन मम सन्तति: नाशिता ।  तस्य गजस्य वधेन एव मम दुःखम् अपसरेत् ।" ततः काष्ठकूट: तां वीणारवा-नाम्या: मक्षिकायाः समीपम् अनयत् । तयो: वार्ता श्रुत्वा मक्षिका अवदत्-“ममापि मित्रं मण्डूकः मेघनाद: अस्ति । शीघ्रं तमुपेत्य यथोचितं करिष्याम:।" तदानीं तौ मक्षिकया सह गत्वा मेघनादस्य पुरः सर्वं वृत्तान्तं न्यवेदयताम्। मेघनाद: अवदत्- "यथाहं कथयामि तथा कुरुतम्। मक्षिके! प्रथमं त्वं मध्याह्ने तस्य गजस्य कर्णे शब्दं कुरु, येन सः नयने निमील्य स्थास्यति। तदा काष्ठकूट: चञ्च्वा तस्य नयने स्फोटयिष्यति । एवं सः गज: अन्ध: भविष्यति । तृषार्त: स: जलाशयं गमिष्यति । मार्गे महान् गर्तः अस्ति । तस्य अन्तिके अहं स्थास्यामि शब्दं च करिष्यामि । मम शब्देन तं गर्तं जलाशयं मत्वा सः तस्मिन्नेव गर्ते पतिष्यति मरिष्यति च।" अथ तथा कृते सः गज: मध्याह्ने मण्डूकस्य शब्दम् अनुसृत्य महतः गर्तस्य अन्तः पतित: मृतः च। तथा चोक्तम्
'बहूनामप्यसाराणां समवायो हि दुर्जयः'।

(अ) एकपदेन उत्तरत- (केवलं प्रश्नद्वयम्) - Any Two 

(0.5x2=1)

i. वृक्षे का प्रतिवसति स्म ?
ii. चटकायाः नीडं कुत्र अपतत् ?
iii. मण्डूकस्य किं नाम आसीत् ?​

Answers

Answered by komalojha169
0

Answer:

I don't know this I will ask to my mom

Similar questions