India Languages, asked by abhish9065, 10 months ago

अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत सीता – भगवति तमसे अपसराव तावत् मां प्रेक्ष्यानेभ्युनुज्ञातेन संनिधानेन राजाधिकं कोपिष्यति ।
तमसा – अयि वत्से, भगीरथीप्रसादाद् वनदेवतानामप्यदृश्यासि संवृत्ता।
सीता – अस्ति खल्वेतत्।
रामः – हा प्रिये जानकि।
सीता – आर्यपुत्र, असदृशं खल्वेततस्य वृत्तान्तस्य (सास्रम्) भगवति किमिति व्रजमयी जन्मान्तरेष्वपि पुनरप्यसम्भावितदुर्लभ दर्शनस्य मामेव मन्दभागिनीमुद्दिश्यैवंवादिन-आर्य पुत्रस्योपिर निरनुक्रोशा भविष्यामि ? अहमेवैतस्य हृदयं जानामि, ममैषः।
रामः – (सर्वतोवलोक्य) (सनिर्वेदम्) हा न किञ्चिदत्र देवि
प्रसाद इव मूर्तस्ते स्पर्शः स्नेहार्दशीतलः ।
अद्याप्यानन्दयति मा त्वं पुनः क्वासि नन्दिनी ॥
सीता – एते खलु तेऽगोधमान संदर्शितस्नेह संभारी आनन्दनिष्यन्दिनः सुधामया आर्यपुत्रस्योल्लापाः। जाने प्रयत्नेन निष्कारण- परित्याग-शल्यितोऽपि बहुमतो में जन्मलाभः।
रामः – (सर्वतोऽवलोक्य) हा, कथं नास्त्येव? नन्वकरुणे वैदेहि।
सीता – अकरुणास्मि यैवं विधं त्वां पश्यन्त्येव जीवामि।
(क) कस्याः प्रसादात् सीता वनदेवतानामपि अदृश्या अभवत् ? (पूर्णवाक्येन उत्तरं दीयताम् ।) (ख) ‘अकरुणे वैदेहि।’ इति पदौ विशेषणं-विशेष्य च वदत। (ग) रामाय सीतायाः स्पर्शः कीदृशः आसीत् ?

Answers

Answered by wwwseenalingampalli
0

Answer:

you can translate in english

Similar questions