१.अधोलिखितगद्यांशं पठित्वा प्रश्नानाम् उत्तरं लिखत। प्रकृतिः मनुष्यस्य उपकारिणी। मनुष्यैः सह तस्या:शाश्वतः सम्बन्धः । सा विविधरूपेण अस्मिन् जगति आत्मानं प्रकटयति। पशवः, पक्षिण: वनस्पतयच तस्याः एव अङ्गानि। निराशा: असहायाः च जनाः तस्याः एव आश्रयं प्राप्नुवन्ति। सा स्वमनोहरेण सौन्दर्येण नीरसम् हृदयम् अपि सरसं करोति। सूर्य: चन्द्रश्च तस्याः नेत्रे स्तः। शस्यश्यामला एषा भूमिः, विविधाः ओषधय: सकलानि खनिजानि च प्रकृते: एव शोभा। सा तु नित्यम् एव एतैः साधनैः सर्वेषाम् उपकारं करोति, परम् अधन्यः अयं जनः कृतज्ञता विहाय असाधुसेवितं पथं गच्छति विविधानि कष्टानि च अनुभवति। नरः शाश्वतं सुखं वाच्छति चेत् तर्हि प्रकृतेः प्रतिकूलं कदापि न आचरेत् इति। प्रश्ना:- (क) मनुष्यैः सह कस्याः शाश्वत: सम्बन्धः? (ख) प्रकृतेः का शोभा? (ग) सूर्य: चन्द्र: च कस्याः नेत्रे स्त:? (घ) अनुच्छेदे "दिवाकरः' इत्यस्य पदस्य कः पर्यायपदम् अस्ति ? (जनः, सूर्यः, नरः) (ड) जगति इदं भासमानः जायते। अस्मिन् वाक्ये क्रिया का?
Answers
Answered by
1
আমার একটি সুন্দর ছবি আছে
Attachments:
Similar questions
Physics,
2 days ago
Social Sciences,
2 days ago
Chemistry,
2 days ago
Computer Science,
4 days ago
English,
4 days ago
Math,
8 months ago
English,
8 months ago