India Languages, asked by jhamj3419, 6 months ago

अधोलिखितम् अनुच्छेदं पठित्वा प्रश्नानां उत्तराणि निर्देशानुसारं लिखत पुरा मथुरायाम् एक: नृशंस: नृपति: अभवत् । तस्य नाम कंस: आसीत् । कंस: श्रीकृष्णस्य मातुल: आसीत् । स: देवकीं वसुदेवं च कारागारे अक्षिपत् । तत्र कारागारे एव श्रीकृष्णस्य जन्म अभवत् । वसुदेव: शिशुं श्रीकृष्णं करण्डके निधाय यमुनाया: नद्या: पारे गोकुलम् अनयत् । तत: स: नन्दस्य पुत्रीं च गृहीत्वा मथुरां प्रत्यागच्छत् । एवं श्रीकृष्ण: सुरक्षित: अभवत् । यदा श्रीकृष्ण: युवा अभवत् तदा स: एव कंसम् अमारयत् ।

1) मथुरायाम् क: नृपति: अभवत् ?
1. सुदामा
2. वसुदेव:
3. कृष्ण:
4. कंस:

2) श्रीकृष्णस्य जन्म कुत्र अभवत् ?
1. मथुरायाम्
2. लंकायाम्
3. कारागारे
4. अयोध्यायाम्

3)श्रीकृष्णस्य मातुल: क: आसीत् ?
1. बलराम:
2. अर्जुन:
3. दुर्योधन:
4. कंस:

4)वसुदेव: श्रीकृष्णं कस्मिन् निधाय गोकुलम् अनयत् ?
1. उत्सवे
2. व्यसने
3. कारागारे
4. करण्डके

5)श्रीकृष्णस्य माता-पितरौ कौ आस्ताम् ?
1. देवकी-वसुदेव:
2. रुक्मणी-कृष्ण:
3. जानकी-वासुदेव:
4. कौशल्या-दशरथ:

6)श्रीकृष्ण: कदा कंसम् अमारयत् ?
1. श्रीकृष्ण: बालक: अभवत् तदा स: एव कंसम् अमारयत्
2. श्रीकृष्ण: युवा अभवत् तदा स: एव कंसम् अमारयत्
3. श्रीकृष्ण: वृद्ध: अभवत् तदा स: एव कंसम् अमारयत्
4. श्रीकृष्ण: कंसम् न अमारयत्

7)“एक: नृशंस: नृपति: अभवत्” अत्र क्रियापदं किम् ?
1. नृपति:
2. नृशंस:
3. एक:
4. अभवत्

8)“तस्य नाम कंस: आसीत्” अत्र कर्तृपदं किम् ?
1. आसीत्
2. तस्य
3. कंस:
4. नाम

9)“अधुना” अस्य विलोमं पदं किम् ?–
1. शिशु:
2. पुरा
3. पारे
4. कारागारम्

10)“राजा” अस्य पर्याय पदं किम् ?
1. कारागारम्
2. सः
3. जन्म
4. नृपति:

Answers

Answered by jha205vishal
5

ANSWER:1)  4. कंस:

ANSWER:2) 3. कारागारे

ANSWER:3) 4. कंस:

ANSWER:4) 4. करण्डके

ANSWER:5) 1. देवकी-वसुदेव:

ANSWER:6) 2. श्रीकृष्ण: युवा अभवत् तदा स: एव कंसम् अमारयत्

ANSWER:7) 4. अभवत्

ANSWER:8) 3. कंस:

ANSWER:9) 2. पुरा

ANSWER:10) 4. नृपति:

Similar questions