India Languages, asked by harshilgill694, 10 months ago

अधोलिखितम् अपठित गद्यांशं पठित्वा निर्देशानुसार प्रश्नानाम् उत्तराणि लिखत संस्कृत-साहित्ये वाचस्पतिमिश्रः प्रसिद्ध विद्वान् अभवत्। सः बाल्ये एव विवाहितोऽभवत् । तस्य पत्न्याः नाम् भामती आसीत्। भामती पितृ-गृहे एवावसत्दु। र्दैव-योगात् मिश्रस्य माता दिवंगता। एतच्छ्रुत्वा भामती पत्युः सेवायै पितृ-गृहात् तत्रागच्छत् । तदा तस्याः पतिः वाचस्पतिः वेदान्तस्य टीकायाः रचनायां व्यस्तः आसीत्। सा सेवापरायणा भामती वर्षाणां विंशतिं पतिम् असेवत। मिश्रः कदापि तां नापृच्छत् यत्त्वं काऽसि, किन्तु सा विदुषी शङ्कासमाधानैः ग्रन्थप्रणयने महत सहायताम् अकरोत् । एकदा अर्धरात्रौ दीपस्य तैलम् अवसितं दीपस्य च निर्वाणः अभवत् । तस्मिन्नेव समये टीकापि सम्पूर्णाऽभवत्ना मकरणमेव अवशिष्टमासीत्। सहसा आसनाद् उत्थाय वाचस्पतिः ताम् अपृच्छत्-काऽसि त्वम् ? भामती उत्तरत्-अहम् आर्यपुत्रस्य भार्या भीमती अस्मि। सः टीकायाः नाम ‘ भामती’ इति अलिखत्।
(क) कः संस्कृतसाहित्ये प्रसिद्धः विद्वान् अभवत् ? (एकपदेन उत्तरं दीयताम्)
(ख) वाचस्पतिमिश्रः कस्मिन् कर्मणि व्यस्तः आसीत् ? (पूर्णवाक्येने उत्तरं दीयताम्)
(ग) ‘भामती वर्षाणां विंशतिं पतिम् असेवत’ इत्यत्र क्रियापदं किम्?
(घ) गद्यांशस्य समुचितं शीर्षक लिखत।

Answers

Answered by Anonymous
23

Answer:

  • वाचस्पतिमिश्रः
  • वाचस्पतिः वेदान्तस्य टीकायाः रचनायां व्यस्तः आसीत्।
  • असेवत

Similar questions