भूपतिः मायादासः (King Mayadasal
एकस्मिन् देशे एकः लुब्धः भूपतिः वसति स्म। तस्य नाम मायादासः आसीत्। सः भूपतिः भवन् अपि दरिद्रवत्
जीवनम् अयापयत्।
एकदा कश्चित् मुनिः तस्य भवनम् आगच्छत्। मायादासः तं मुनि सत्कारेण अतोषयत्। नृपस्य सत्कारेण सन्तुष्टः
मुनिः अवदत् - "नृप! स्वस्त्यस्तु ते! अभीष्टं वरं वरय'' इति। मुनेः वचनं श्रुत्वा सः भूपतिः लोभेन अभिभूतः
अवदत् 'मया स्पृश्यमानाः पदार्थाः सौवर्णाः भवन्तु'' इति। "तथास्तु'' एवमुक्त्वा सः मुनिः अन्तर्धानः अभवत्।
वरं लब्ध्वा मायादासः गृहे स्थितानि वस्तूनि अस्पृशत्। तेन स्पृष्टानि वस्तूनि तत्क्षणमेव सौवर्णानि जातानि। तद्
दृष्ट्वा सः अति प्रसन्नः अभवत्। ततः सः पिपासया आतुरः जातः । सः जलं पातुम् उद्यतः अभवत् किन्तु तेन
स्पृष्टं जलमपि सुवर्णपिण्डम् अभवत्।
तस्मिन् अवसरे राजकुमारी पुष्पमञ्जरीम् आदाय तत्र आगता।
"पितः! अतीव सुन्दराणि पुष्पाणि इमानि'' इति अवदत्। नृपः
तां मञ्जरी करेण अस्पृशत्। तेन स्पृष्टा मञ्जरी सुवर्णमयी
जाता। तद् दृष्ट्वा राजकुमारी दुःखिता अभवत्। पुत्री
समाश्वासयितुं प्रवृत्तः सः ताम् अंके उपवेशयति स्म। हन्त!
कुमारी सुवर्णप्रतिमा सञ्जाता। इति दृष्ट्वा मायादासः शोकेन
उच्चै: अरुदत्।
Answers
Answered by
0
Answer:
Just take the pic of the question
Similar questions