Hindi, asked by salvibhadohigmailcom, 5 hours ago

- भारते अनेकाः पुण्यप्रदाः मङ्गलकारिण्यः नद्यः सन्ति, तासु गङ्गानदी पवित्रतमा कथ्यते। भारतीयजनानां हृदि विश्वासः अस्ति यद् अस्यां नद्यां स्नानेन नरः पापाद् विमुच्यते। गङ्गानदी मुक्तिदायिनी अस्ति। गङ्गानद्याः जलम् ओषधिगुणेन युक्तम् अमृततुल्यं भवति। भागीरथी-जाह्नवी-सुरनदी-सुरसरितादीनि गङ्गानद्याः एव नामानि सन्ति। महाराजभगीरथः स्वपूर्वजानाम् उद्धाराय भगवन्तं प्रार्थयत् गङ्गानदीं च पृथिव्याम् आनयत्। ततः प्रभृति एषा भागीरथी इति नाम्ना प्रसिद्धा अभवत्। गङ्गानदी हिमालयस्य गङ्गोत्री नामकस्थानात् उद्गच्छति। गङ्गानद्याः तटे हरिद्वारं प्रयागः वाराणसी च प्रसिद्धानि तीर्थस्थानानि सन्ति। यत्र जनाः श्रद्धया स्नानं कुर्वन्ति। सायंकाले जनाः नौका-विहारम् अपि कुर्वन्ति। देवदीपावल्यां जनाः प्रज्वलितान् दीपान् नद्याः जले विसृजन्ति। दीपानां प्रकाशेन दृश्यं मनोहरम् अनुपमं च भवति। एवमेव भारते अन्यासामपि नदीनां महत्त्वम् अस्ति। भारतीयाः नदीनां पूजनं देवतारूपेण कुर्वन्ति। ​

Answers

Answered by khanshirin04
0

Answer:

Explanation:

भारते अनेकाः पुण्यप्रदाः मङ्गलकारिण्यः नद्यः सन्ति, तासु गङ्गानदी पवित्रतमा कथ्यते। भारतीयजनानां हृदि विश्वासः अस्ति यद् अस्यां नद्यां स्नानेन नरः पापाद् विमुच्यते। गङ्गानदी मुक्तिदायिनी अस्ति। गङ्गानद्याः जलम् ओषधिगुणेन युक्तम् अमृततुल्यं भवति। भागीरथी-जाह्नवी-सुरनदी-सुरसरितादीनि गङ्गानद्याः एव नामानि सन्ति। महाराजभगीरथः स्वपूर्वजानाम् उद्धाराय भगवन्तं प्रार्थयत् गङ्गानदीं च पृथिव्याम् आनयत्। ततः प्रभृति एषा भागीरथी इति नाम्ना प्रसिद्धा अभवत्। गङ्गानदी हिमालयस्य गङ्गोत्री नामकस्थानात् उद्गच्छति। गङ्गानद्याः तटे हरिद्वारं प्रयागः वाराणसी च प्रसिद्धानि तीर्थस्थानानि सन्ति। यत्र जनाः श्रद्धया स्नानं कुर्वन्ति। सायंकाले जनाः नौका-विहारम् अपि कुर्वन्ति। देवदीपावल्यां जनाः प्रज्वलितान् दीपान् नद्याः जले विसृजन्ति। दीपानां प्रकाशेन दृश्यं मनोहरम् अनुपमं च भवति। एवमेव भारते अन्यासामपि नदीनां महत्त्वम् अस्ति। भारतीयाः नदीनां पूजनं देवतारूपेण कुर्वन्ति। ​

Similar questions