भारते मम अनेकानि रूपाणि सन्ति। उत्तरस्यां दिशि अहं 'सिन्धु'
नाम्ना विख्याता। अत्र एव 'झेलम-चनाब-रावी-व्यास-सतलुज'
इति पञ्चधाराः मयि मिलन्ति। एताभिः पञ्चधाराभिः एव
अयं प्रदेशः ‘पञ्जाब' इति कथ्यते। उत्तरप्रदेशे अहं मातृरूपे
'गङ्गा' इति नाम्ना पूज्या अस्मि। मम तटेषु ऋषयः मुनयः
अपि तपस्याम् अकुर्वन्। ते स्व-आश्रमाणां स्थापनाम् अपि
अकुर्वन्। स्वामि-श्रद्धानन्दमहोदयेन स्थापितः गुरुकुल-कांगड़ी-
विश्वविद्यालयः अपि मम तटे एव विराजते। दक्षिणदिशायाम् अहं
'कावेरी-गोदावरी-कृष्णा' इति नामभिः प्रवहामि। 'तमिलनाडु
इति क्षेत्रे अहं ‘पेन्नार-पोनेरु-वाइगेई' इति नामभिः केरलप्रदेश
च 'पेरियार' इति नाम्ना प्रसिद्धा अस्मि। eng translation
Answers
Answered by
3
are u study in dav it is the 3rd chapter of sanskrit book name surbhi
Similar questions