भारतदेशस्य वर्णनं स्वमातृभाषायां कुरुत?
Answers
Answer:
I don't know this answers sorry
Answer:
भारतस्य संविधानं नाम प्रजानां प्रशासनस्य नियमानुशासनानां ग्रन्थः । सर्वकारस्य मूलरचनस्य मार्गदशकम् एतत् संविधानम् । एतत् क्रि.श.१९४७तमे वर्षे डिसेम्बर् मासस्य ९दिनाङ्कात् क्रि.श १९४९ तमवर्षस्यनवेम्बर्२६दिनाङ्कपर्यन्तं भारतसंविधान रचनकार्यम् अनुवृत्तम् । क्रि.श.१९५०तमे वर्षे जनवरिमासस्य २६दिनाङ्के कार्ये अनुष्ठितम् । अतः भारते प्रतिवर्षं तद्दिनं गणराज्योत्सवःआचर्यते । भारतीयसंविधानस्य ४४४विधयः १० अनुच्छेदाः च विद्यन्ते । नैकाः परिष्काराः अस्य अभवन् । विश्वस्य लिखितेषु संविधानेषु भारतस्य संविधानग्रन्थः अतिबृहत् अस्ति । अस्य संविधानस्य आङ्ग्लभाषायाः आवृत्तौ १,१७,३६९पदानि सन्ति ।भारतीयप्रजाः प्रान्तीयसभासदस्यान् चितवन्तः ते सदस्याः संविधानरचनसभायः सदस्यान् चितवन्तः । भारतस्य संविधानरचनसभायां विविधप्रदेशानां विविधसमुदायानां जनाः विविधाः राजनैतिकचिन्तनशीलाः आसन् । जवाहरलाल नेह्रू, सरदार् वल्लभभायी पटेल्, मौलान अब्दुल् कलाम् आजाद्, श्यामप्रसाद् मुखर्जी इत्यादयः संविधानरचनस्य चिन्तनसभायां भागम् अवहन् । परिशिष्टवर्गस्य त्रिंशत् अंशिकाः जानाः अपि आसन् । आङ्ग्लभारतीयजनानां प्रतिनिधिः फ्राङ्क् एण्टनि पार्सिजनानां प्रतिनिधिः एच्.पि.मोदि इत्यादयः अपि आसन् । क्रैस्तानां प्रतिनिधिः हरेन्द्रकुमार् मुखर्जी अल्पसङ्ख्याकसमितेः अध्यक्षः अभवत् । सरोजिनि नायडु विजयलक्ष्मी पण्डित् प्रधाने महिलासदस्ये आस्ताम् । डा.सच्चिदानन्द सिन्हा संविधानसभायाः प्रथमः अध्यक्षः अभवत् । डा.राजेन्द्रपरसाद्महोदयः द्वितीयः अध्यक्षः अभवत् । डा.बि.आर्.अम्बेड्कर्महोदयःसंविधानपरिरेखसमितेः अध्यक्षरूपेण चितः । संविधानरचनस्य समावेशः द्विवर्षोत्तरं ११मासाः, १८दिनानि समचलत् । अस्मिन् समावेशे सार्वजनिकानां पत्रिकाजनानां च मुक्तः प्रवेशावकाशः आसीत् ।
Explanation:
Hope this may help you....