चित्रम् दृष्टवा वाक्यानि रचयत्।
(दीपका:, दीपावली,मिष्टान्नानि,भारतस्य, आनन्दस्य)
Answers
Answer:
दीपावली, दिवाली या दीवाली शरद ऋतु (उत्तरी गोलार्द्ध) में हर वर्ष मनाया जाने वाला एक प्राचीन हिन्दू त्यौहार है।[2][3] दीपावली कार्तिक मास की अमावस्या को मनाया जाता है जो ग्रेगोरी कैलेंडर के अनुसार अक्टूबर या नवंबर महीने में पड़ता है। दीपावली भारत के सबसे बड़े और सर्वाधिक महत्वपूर्ण त्योहारों में से एक है। दीपावली दीपों का त्योहार है। आध्यात्मिक रूप से यह 'अन्धकार पर प्रकाश की विजय' को दर्शाता है।[4][5][6
अस्माकं भारतवर्षे प्रतिवर्ष बहूनि पर्वाणि मान्यन्ते । तेषु पर्वेषु दीपावालिः हिन्दुनां पवित्रं पर्वमस्ति । इदं कथ्यते यत् अस्मिन् एव दिने श्रीरामः रावणादि राक्षसान् निहत्य सीतया लक्ष्मणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नो भूत्वा स्वगृहेषु राजमार्गेषु च दीपकान् प्रज्वालयन् । जानश्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत् । दीपावलिः प्रतिवर्षे कार्तिकमासस्य अमावस्यायां तिथौ मान्यते । जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति । जनाः मालाभिः , विद्युत्दीपैः , मृतिकादीपैः च गृहाणि , मन्दिराणि राजमार्गणि , आपणानि च अलंकृतानि कुर्वन्ति । जनाः रात्रौ लक्ष्मी – गणेशस्य च पूजनं कुर्वन्ति । मिष्ठान्नानि च खादन्ति । बालकाः स्फोटकानि स्फोटयन्ति प्रसन्नाः च भवन्ति । दीपावलिः पावनतायाः , उल्लासस्य च प्रतीकमस्ति यथा दीपकः अंधकारं नाशयति तथैव वयमपि अज्ञानस्य , भेदभावस्य , घृणायाः च अन्धकारं नाश्याम । अयं अस्य पर्वस्य संदेशः अस्ति ।
long essay on diwali in Sanskrit language
अस्माकं भारतवर्ष प्रतिवर्ष बहूनि पाणिमान्यन्ते । तेष पर्वेष दीपावालि: हिन्दुनों पवित्रं पार्वमस्ति । इंद्र कथ्यते यत् अस्मिन् एव दिन श्रीराम रावणादि राक्षसान् निहत्य सीतया लमाणेन च सह चतुर्दशवर्षाणां वनवासं समाप्य अयोध्यां प्रत्यागच्छन् । तदा अयोध्यावासिनः प्रसन्नी भूत्वा स्वहिप राजमागेषु । च दीपकान् प्रज्वालयन् । जाना श्रुत्यानुसारेण अस्मिन् एव दिने समुद्रमंथने लक्ष्मी प्रकटिता अभवत् ।
भारतवर्षस्य एकः महान् उत्सवः अस्ति । दीपावलि इत्युक्ते दीपानाम् आवलिः । अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति । कार्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्तिकशुद्धद्वितीयापर्यन्तं 5 दिनानि यावत् आचर्यते एतत् पर्व । सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति । दीपानां प्रकाशः अन्धकारम् अपनयति । एतत्पर्वावसरे गृहे , देवालये , आश्रमे , मठे , नदीतीरे , समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति । प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते । दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति । पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति । रात्रौ जनाः लक्ष्मी पूजयन्ति मिष्टान्नानि च भक्षयन्ति । सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति , सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति । ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति । बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति । अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति । एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति । अस्य पर्वण: दीपालिका , दीपोत्सव: , सुखरात्रि: , सुखसुप्तिका , यक्षरात्रि: , कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति । अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति ।