Hindi, asked by privacy, 1 year ago

composition on 'Sanskrit language' in Sanskrit

Answers

Answered by coolthakursaini36
7

                                                      संस्कृत भाषा

सर्वासु भाषासु मह्यं संस्कृत भाषा रोचते| इयं भषा विश्वस्य सर्वासु भाषासु प्राचीनतमा इति, अत्र न अस्ति कोsपि विवाद:| अस्य संसारस्य प्रथमं पुस्तकं ऋग्वेद: अस्यां भाषायां लिखित: अस्ति|

अयं भाषा अनेकाषां भाषानां जननी मता| विज्ञानिका: कथयन्ति यत् संस्कृत भाषा संगणकस्य कृते सर्वोत्तम: भाषा| संस्कृत भाषा व्याकरण दृष्ट्या: परिपूर्णम् अस्ति|

संस्कृत भाषा देवानां भाषा अस्ति अस्मात् कारणात् अपि मह्यं संस्कृत रोचते| इयं भाषा अति सरलम् अस्ति| संस्कृत भाषायां यत् लिख्यते तत् एव पठ्यते|

संस्कृत भाषा एव भारतवर्षम् एकसूत्रे बध्नाति | संस्कृतमेव भारतस्य  

गौरवं अस्ति अत: अस्या: प्रचार: प्रसार: अस्माकं कर्तव्याः |

Answered by harshitdas2598
1

Answer:

Can I get a simple essay on Sanskrit language in Sanskrit?

प्रस्तावना

संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।

संस्कृतभाषाया उपयोगिता , महत्त्वं लाभाश्च

संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म । अत : ईसवीयसंवत्सरात्पूर्व प्रायः समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते । संस्कृतभाषायाः सर्वे जनाः प्रयोगं कुर्वन्ति स्म , इति तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव । आधुनिक भाषाविज्ञानमपि एतदेव सनिश्चयं प्रमाणयति ।

तत्साहित्यम

संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति । तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति , यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां , गृह्यसूत्राणां , धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति । महर्षिवाल्मीकिकृतवाल्मीकीयरामायणस्य , महर्षिव्यासकृतमहाभारतस्य च रचना विश्वसाहित्येऽपूर्ण घटना आसीत् । सर्वप्रथमं विशदस्य कवित्वस्य , प्रकृतिसौन्दर्यस्य , नीतिशास्त्रस्य , अध्यात्मविद्यायाः तत्र दर्शनं भवति । तदनन्तरं । कौटिल्यसदृशाः अर्थशास्त्रकाराः भासकालिदासाश्वघोषभवभूतिदण्डिसुबन्धुबाणजयदेवप्रभूतयो । महाकवयो नाट्यकाराश्च पुरतः समायान्ति , येषां जन्मलाभेन न केवल भारतभूमिरेव , अपितु समस्तं विश्वमेतद् धन्यमस्ति । एतेषां कविवराणां गुणगणस्य वनि महाविद्वांसोऽपि असमर्थाः सन्ति , का गणना साधारणानां जनानाम् । भगवद्गीता , पुराणानि , स्मृतिग्रन्थाः अन्यद्विषयकं च सर्व साहित्य संस्कृतस्य माहात्म्यमेवोद्घोषयति ।

उपसंहारः

संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः ।

Similar questions