computer par nibandh in Sanskrit
Answers
Answer:
सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च। आं न इति सङ्केताभ्यां सङ्गणकं कार्याणि करोति। तस्य द्वौ भागौ स्तः- तन्त्रांशः, यन्त्रांशः च। तन्त्रांशः एव यन्त्रांशं कार्यम् कर्तुम् आदेशं यच्छति। आधुनिके युगे सङ्गणकानि विना जीवनं न सम्भवति। गणकयन्त्रं तु एकम् विद्युन्मानयन्त्रं वर्तते । एकविंशतितमं शतकं गणकयन्त्रयुगनाम्ना निर्दिश्यते । अद्यत्वे गणकयन्त्रेण विना जगति किमपि न प्रचलति जगच्च न अग्रे सरति। यथा धूमशकटयानस्य, लोकयानस्य च चीटिकादानादारभ्य वित्तकोशीयव्यवहारपत्राणां सज्जतापर्यन्तं सर्वाणि कार्याणि गणकयन्त्रसाहाय्येन एव प्रचलन्ति । पुरातनकाले मानवः अश्मायुधेन मृगयया च स्वकीयम् आहारं सम्पादयति स्म । अतः तद्युगं शिलायुगम् इति कथ्यते स्म । तदनन्तरं कालक्रमेण अश्मायुधं परित्यज्य शराग्रे तीक्ष्णलोहभागं विधाय, परशोः साहाय्येन वा आहारं प्राप्य उदरम्भरणं करोति स्म । तद्युगं लोहयुगमिति कथ्यते स्म । कालान्तरेण यथा यथा विज्ञानस्य प्रगतिः अभवत् तथा तथा नूतनानि उपकरणानि आविष्कृतानि । अनेकानि औषधानि संशोधितानि । अधुना मानवः गगने खगः इव विमानयानेन उड्डयनं यथा तथा अर्णवे अन्तर्जलगामिन्या मत्स्य इव तरणं कर्तुम् शक्नोति ।
गणकयन्त्रस्य इतिहासः
गणकयन्त्रं चार्लस् ब्याबेज्महोदयेन आविष्कृतम् । अपरा महिला लेडी आडा अपि अस्य यन्त्रस्य आविष्करणकार्ये धनसाहाय्यं कृत्वा तस्य परिज्ञानप्राप्तये साहाय्यं कृतवती । हङ्गेरीदेशस्य गणितज्ञः जानवान् न्यूमन् अस्मिन् यन्त्रे कथं कार्यविषयान् संगृह्य स्थापयितुं शक्यम् इति आविष्कृतवान् । ईदृशम् संगणकं आङ्लभाषायां stored programme computer इति, संस्कृतभाषया संगृहीतविधिसंगणकम् इति च अभिधीयते। विश्वे प्रथमगणकयन्त्रम् अमेरिकादेशस्य पेन्सिल्वेनिया विश्वविद्यालयस्य विद्युद्यन्त्रशाखायां निर्मितम् । एक्कर्ट् तथा म्याकले महोदयाभ्यां गणकयन्त्रं परिष्कृतम् । अद्यपर्यन्तं नानाविधानि गणकयन्त्राणि आविष्कृतानि । अधुना अस्माकं पुरतः चतुर्थ-परम्परीय-गणकयन्त्रं वर्तते । पञ्चम-परम्परीय-गणकयन्त्रस्य आविष्करणकार्यं प्रचलदस्ति यस्मिन् कृतकबुद्धियोजनस्य प्रयत्नः प्रचलति । यथा धान्यानां पिष्टरूपप्राप्तये धान्यमर्दनयन्त्रस्य एकस्मिन् द्वारे धान्यं स्थाप्यते चेत् अन्यस्मात् द्वारात् पिष्टरूपं प्राप्यते । तथैव गणकयन्त्रे विषयाः पूर्यन्ते चेत् इदं यन्त्रं विषयाणाम् अनेकानि रूपाणि प्रदर्शयति । आङ्गलभाषायां इदं इन् पुट् (Input) इति, संस्कृतभाषया निवेश्यं इति चाभिधीयते।
Explanation:
Copied and Pasted from google...
Answer:
Yes computer par nibandh in Sanskrit
Explanation:
Please follow me and mark me brainlist