Hindi, asked by sarthakbhatnagar40, 3 months ago

dr br ambedkar brief biography in sanskrit​

Answers

Answered by alexcarreyy789456
3

Answer:

भीमराव रामजी आम्बेडकर महोदयः (१४ एप्रिल १८९१- ०६ डिसेम्बर १९५६) एषः भारतीय न्यायशास्त्रज्ञः, अर्थशास्त्रज्ञः, राजनीतिज्ञः, तत्वज्ञः तथा समाजसुधारकः आसीत्। सः जातिभेद तथा स्पृश्यास्पृश्यभेद विरुद्धं प्रतियोधत्। सः महिलानां च श्रमिकानां अधिकारस्य पुरस्कर्ता आसीत्। बालावस्था मनुष्यस्य जीवितकाले प्रमुखा इति उच्यते । सः कालः मनुष्यस्य भविष्यस्य बीजरूपम् । बहूनां महनुभावानां बाल्यजीवनं क्लेशमयं दृश्यते । परन्तु ते सर्वान् क्लेशान् अनुभूय परिहृत्य वा जीवनसङ्ग्रामे यशः प्राप्नुवन्ति । तेषु डा ॥ अम्बेडकरमहोदयः अपि अन्यतमः ।तस्य बाल्यं दुःखमयम् आसीत् । तथापि सः मानवसमुदाये एव उच्चस्थानं प्रात्य धीमान् इति प्रख्यातः अभवत् ।तस्य आदर्शमयस्य विद्यार्थिजीवनस्य विषयं तथा तस्य अभ्युदये तत्त्पितुः सततप्रयत्नं च ज्ञातुं प्रयत्नं कुर्मः ।

डा ॥ भीमरावरामजी अम्बेडकरमहोदयस्य जन्म महाराष्ट्रस्य अम्बावाड इति ग्रामे १८९१ तमे वर्षे (एकनवत्युत्तर-अष्टादशशत्-तमे वर्षे) एप्रिलमासे चतुर्दशदिनाङ्के अभवत । भीमस्य पिता रामजी सक्पालः माता च भीमाबायी [१]। मातापित्रोः सततपूजाप्रार्थनानां फलम् इव भीमस्य जन्म अभवत् । भीमस्य आदर्शव्यक्तित्वनिर्माणे तस्य जननीजनकयोः पात्रं महात्त्वपूर्णम् आसीत् । एतयोः दम्पत्योः पूर्वजाः कबीरपथस्य अनुयायिनः आसन् । एते मांसाहारं मधुपानादिकं च त्यक्तवन्तः आसन् । भीमस्य गृहपरिसरः नैर्म्ल्यन सरलतया भक्तिभावेन न युक्तः आसीत् ।बालकस्य मनसि गृहपरिसरस्य प्रभावः आसीत् । रामजी सक्पालः विद्यावान् आसीत् । यद्यपि निर्धनः तथापि सुसंस्कृतः सः अनेकान् आदर्शनियमान् अनुसरति स्म । कर्तव्यम् एव दैवम इति सः भावयति स्म । अतः एव सः रामजी सक्पालः कर्तव्यपरायणः सत्यवादी उदारः धर्मरतः च आसीत् । प्रतिदिनं गृहे सर्वैः कौटुम्बकैः सह देवसङ्कीर्तनं सश्रद्धं करोति स्म । एषः धार्मिकगुणः तस्य पुत्रे सुसंस्कारं वर्धयितुं प्रमुखं कारणम् अभवत् । न केवलं देवसङ्कीर्तनं किन्तु रामायण - महाभारतकथाश्रवणम् अपि रामजी कारयति स्म ।

Similar questions