Hindi, asked by darshna1, 1 year ago

easy on diwali in sanskrit

Answers

Answered by sona561
5
दीपावलिः भारतवर्षस्य एकः महान् उत्सवः अस्त्ति ।
दीपावलि इत्युक्ते दीपानाम् आवलिः ।
अयम् उत्सवः कार्तिकमासास्य अमावस्यायां भवति ।
कार्त्तिकमासस्य कृष्णपक्षस्य त्रयोदशीत: आरभ्य कार्त्तिकशुद्धद्वितीयापर्यन्तं ५ दिनानि यावत् आचर्यते एतत् पर्व ।
सायंकाले सर्वे जनाः दीपानां मालाः प्रज्वालयन्ति ।
दीपानां प्रकाशः अन्धकारम् अपनयति ।
एतत्पर्वावसरे गृहे, देवालये, आश्रमे, मठे, नदीतीरे, समुद्रतीरे एवं सर्वत्रापि दीपान् ज्वालयन्ति ।
प्रतिगृहं पुरत: आकाशदीप: प्रज्वाल्यते ।
दीपानां प्रकाशेन सह स्फोटकानाम् अपि प्रकाश: भवति ।
पुरुषाः स्त्रियः बालकाः बालिकाः च नूतनानि वस्त्राणि धारयन्ति आपणानां च शोभां द्रष्टुं गच्छन्ति ।
रात्रौ जनाः लक्ष्मीं पूजयन्ति मिष्टान्नानि च भक्षयन्ति ।
सर्वे जनाः स्वगृहाणि स्वच्छानि कुर्वन्ति, सुधया लिम्पन्ति सुन्दरैः च चित्रैः भूषयन्ति ।
ते स्वमित्रेभ्यः बन्धुभ्यः च मिष्टान्नानि प्रेषयन्ति ।
बालकाः बालिकाः च क्रीडनकानां मिष्टान्नानां स्फोटकपदार्थानां च क्रयणं कुर्वन्ति ।
अस्मिन् दिवसे सर्वेषु विद्यालयेषु कार्यालयेषु च अवकाशः भवति ।
भारतीयाः इमम् उत्सवम् प्रतिवर्षं सोल्लासं समायोजयन्ति ।
एवं सर्वरीत्या अपि एतत् पर्व दीपमयं भवति ।
अस्य पर्वण: दीपालिका, दीपोत्सव:, सुखरात्रि:, सुखसुप्तिका, यक्षरात्रि:, कौमुदीमहोत्सव: इत्यादीनि नामानि अपि सन्ति ।
अस्मिन्नवसरे न केवलं देवेभ्य: अपि तु मनुष्येभ्य: प्राणिभ्य: अपि दीपारतिं कुर्वन्ति

hope it may help you

darshna1: thankyou
sona561: welcome dr
Similar questions