एकस्मिन् नगरे एक: चतुर: नरः आसीत्। सः विद्यायुक्त: परन्तु वञ्चक: आसीत्। सः भिन्नप्रकारेण जनान् वञ्चयित्वा
धनसञ्चयं करोति स्म। तस्य गृहे एकं बहुमूल्यं सुवर्णपात्रम् आसीत्। एकदा सः एकम् उपायम् अचिन्तयत्। सः सर्वत्र
घोषणाम् अकरोत् यत् यः कोऽपि एका नवीना कथां श्रावयिष्यति तस्मै अहम् एतत् सुवर्णपात्रं दास्यामि। किन्तु यदि सा कथा
मया पूर्वश्रुता भविष्यति तदा स: मयं पञ्चशतं सुवर्णमुद्रा: दास्यति। एतां वार्ता श्रुत्वा बहव: जना: सुवर्णपात्रस्य लोभेन
तस्य गृहम् आगच्छन् अपूर्वा: च कथा: अश्रावयन्। परन्तु प्रत्येकं कथां श्रुत्वा स: अन्ते वदति ‘एतां कथाम् अहं पूर्वमेव
श्रुतवान्' इति। निराशया ते जनाः तस्मै पञ्चशतं सुवर्णमुद्रा: दत्वा गच्छन्ति। एवं स: अनेकसुवर्णमुद्राणां सञ्चयम् अकरोत्।
एकदा एक: बुद्धिमान् बालक: एतां वार्ता श्रुत्वा तस्य समीपम् आगच्छत् कथां च श्रावयितुं तत्परः अभवत्।
चतुरः नरः तम् अवदत्- "किं भवान् जानाति यत् यदि कथा मया पूर्वश्रुता भविष्यति तदा भवान् मह्यं पञ्चशतं
सुवर्णमुद्रा: दास्यति?'' बाल: अवदत- "आम्। अहं जानामि''। इति उक्त्वा स: कथां प्रारभत- "भवान् स्मरति किं यत्
भवतः पिता मम पितुः पञ्चलक्षसुवर्ण-मुद्रा: गृहीतवान्? यदि एतां कथां भवान् पूर्वं श्रुतवान् तर्हि पञ्चलक्षसुवर्णमुद्रा: मह्य
ददातु यदि न श्रुतवान् तर्हि एतत् सुवर्णपात्रं मह्यं ददातु।'' स: वञ्चक: स्वपराजयं स्वीकृत्य सुवर्णपात्रेण सह सुवर्णमुद्राः
अपि बालकाय अयच्छत्।
सत्यम् एव मन्यते "बुद्धिः एव उत्तमा"।
translate it pls now I will give my 20 points pls
Answers
Answered by
0
Answer:
I don't know answer you make answer
Sorry
Explanation:
Please make brainlist answer
Answered by
0
Answer:
hi can we be frnds .....
Similar questions