एसे इन संस्कृत ऑन द टॉपिक शिक्षा का जीवन में महत्व
Answers
Answer:
समाज: परिवर्तनशीलः अस्ति। यथा खानपानेषु, वस्त्रपरिधानेषु, भूषणेषु परिवर्तनं जातं, तथा वर्तमाने शिक्षानीत्यामपि परिवर्तनं जातम्।
प्राचीनसमये ‘गुरुकुलव्यवस्था' आसीत्। बालका: स्वगृहं परित्यज्य गुरुकुलेषु आश्रमेषु वसन्ति स्म। गुरुकुलान् शिक्षा प्राप्य, गुरवे गुरुदक्षिणां दत्वां, तदनन्तरं स्वगृहं प्रत्यागच्छन्ति स्म। पुरा गीतादिग्रन्थानां पठनम् आवश्यकम् आसीत्।
वर्तमानसमये शिक्षानीत्यां महत् परिवर्तनमभवत्। अधुना कोऽपि बालकः गुरुकुलं न गच्छन्ति। गुरु-शिष्यपरंपरा विलुप्ता इव। अधुना अभिभावकाः बालकं आयुषः तृतीय वर्षे एव पाठशालां प्रेषयन्ति। पठनस्य माध्यममपि द्विविधम् अस्ति। केचन छात्रा: आंग्लभाषायाम् पठन्ति, केचन च हिंदी भाषायाम्। आंग्लभाषायाः अध्ययनं प्राथमिकशालासु अपि अनिवार्यमभवत्। राजकीयशालासु, शासकीयशालास पठनमूल्यं नाममात्रमस्ति, किन्तु सार्वजनिकासु निजशिक्षणसंस्थासु पठनशुल्कम् अधिकम् अस्ति। धनिकानां बालकाः एव तत्र पठितुं शक्नुवन्ति।
अधुना प्राथमिकशालासु एव विद्याध्ययने न सह अन्याः कलाः अपि पाठयन्ति। क्रीडनाय अपि प्रोत्साहयन्ति। विश्वविद्यालये विद्यार्थिन: छात्रावासेषु कतिपयवर्षाणि वसन्ति। अभिभावकोः स्वपुत्राणां शिक्षायै कतिपयानि रुप्यकाणि व्ययन्ति।
अस्माकम् एतत् दुर्भाग्यं यत् छात्राः अत्र पठन्ति, शासनः अपि तेभ्यः व्ययं करोति, किन्तु कतिपयाः युवकाः अत्र पठित्वा विदेशं गच्छन्ति। तेषां ज्ञानस्य उपयोग; अन्यत्र भवति। यदि स्वदेशवासिनः तेषां ज्ञानस्य लाभः लभन्ते, तर्हि इयं शिक्षानीतिः सफलं वर्तते। अधुना वयं राष्ट्रप्रवृत्तिसु न सन्नध्याः। अस्मासु विदेशसंस्कृत्याः प्रभावः जातः, किन्तु वयं स्वसंस्कृतिं न विस्मरेम।
महापुरुषाणाम् उपदेशपूरकानि पुस्तकानि पाठशालासु निर्धारयितव्यानि। तेषाम् अध्ययनेन विद्यार्थिन: न केवलं विद्यावन्तः भवेयुः अपि तु सदाचारिणः देशभक्ताः अपि भवेयुः। अतः पठने नैतिक-शिक्षायाः प्रयोगः अवश्यमेव कर्तव्यः।