एषा गुहा 'स्वामिन:' सदा आह्वानं करोति। *
कास्य
कस्य:
क:
कस्य
Answers
Answer:
Explanation:
.2: एकपदेन उत्तरं लिखत-
(क) सिंहस्य नाम किम्?
(ख) गुहाया: स्वामी क: आसीत्?
(ग) सिंह: कस्मिन् समये गुहाया: समीपे आगत:?
(घ) हस्तपादादिका: क्रिया: केषां न प्रवर्तन्ते?
(ङ) गुहा केन प्रतिध्वनिता?
Ans : (क) खरनखर:।
(ख) दधिपुच्छ: शृगाल:।
(ग) सूर्यास्तसमये।
(घ) भयसन्त्रस्तमनसाम् ।
(ङ) सिंहस्य गर्जनेन ।
Q.3: पूर्णवाक्येन उत्तरत-
(क) खरनखर: कुत्र प्रतिवसति स्म?
(ख) महतीं गुहां दृष्ट्वा सिंह: किम् अचिन्तयत्?
(ग) शृगाल: किम् अचिन्तयत्?
(घ) शृगाल: कुत्र पलायित:?
(ङ) किं विचार्य सिंह: शृगालस्य आह्वानमकरोत्?
(च) अस्यां कथायां कस्य चातुर्यं निरूपितं सिंहस्य शृगालस्य वा?
Ans : (क) खरनखर: वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत – “नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीव: आगच्छति। अत: अत्रैव निगूढ़ो भूत्वा तिष्ठामि।”
(ग) शृगाल: अचिन्तयत् – “अहो विनष्टोऽस्मि। नूनम् अस्मिन् बिले सिंह: अस्तीति तर्कयामि। तत् किं करवाणि?”
(घ) शृगाल: गुहाया: दूरं पलायित:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत् यतोहि − मम् आह्वान श्रुत्वा स: बिले प्रविश्य मे भोज्यं भविष्यति।
(च) अस्यां कथायां शृगालस्य चातुर्यं निरूपितं यतोहि स स्वयुक्तिया सिंहस्य चाले विफलं अकरोत।
Q.4: रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत
(क) क्षुधार्त: सिंहः कुत्रापि आहारं न प्राप्तवान्?
(ख) दधिपुच्छ: नाम शृगालः गुहाया: स्वामी आसीत्?
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति?
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते?
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति?
Ans : Missing
Q.5: घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(घ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(ङ) सिंह: शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमान: शृगाल: श्लोकमपठत्।
(छ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
Ans : एतानि उपयुक्त क्रम निम्न सन्ति:-
(क) परिभ्रमन् सिंह: क्षुधार्तो जात:।
(ख) सिंह: एकां महतीं गुहाम् अपश्यत्।
(ग) गुहाया: स्वामी दधिपुच्छ: नाम शृगाल: समागच्छत्।
(घ) गुहायां कोऽपि अस्ति इति शृगालस्य विचार:।
(ङ) दूरस्थ: शृगाल: रवं कर्त्तुमारब्ध:।
(च) सिंह: शृगालस्य आह्वानमकरोत्।
(छ) दूरं पलायमान: शृगाल: श्लोकमपठत्।
Q.6: यथानिर्देशमुत्तरत
(क) 'एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्' अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि
लिखत? ।
(ख) तदहम् अस्य आह्वानं करोमि- अत्र 'अहम्' इति पदं कस्मै प्रयुक्तम्?
(ग) 'यदि त्वं मां न आह्वयसि' अस्मिन् वाक्ये कर्तृपदं किम्?
(घ) 'सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते' अस्मिन् वाक्ये क्रियापदं किम्?
(ङ) 'वनेऽत्र संस्थस्य समागता जरा' अस्मिन् वाक्ये अव्ययपदं किम्?
Ans : Missing
Q.7: मञ्जूषात: अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
सहसा दूरे क्रमश: यदा तदा परन्तु यदि तर्हि
एकस्मिन् वने कश्चन व्याध: जालं विस्तीर्य ——————– स्थित:। ——————– आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। ——————– तण्डुलकणानामुपरि कपोतानां लोभो जात:। ——————– राजा तत्र सहमत: नासीत्। तस्य युक्ति: आसीत् ——————– निर्जने वने कोऽपि मनुष्यो नास्ति ——————– कुतो वा तण्डुलकणानां सम्भव:? ——————– राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, ——————– जाले निपतिता:। अत: उक्तम् ‘——————– विदधीत न क्रियाम्’।
Ans : एकस्मिन् वने कश्चन व्याध: जालं विस्तीर्य दूरे स्थित:। क्रमश: आकाशे सपरिवार: कपोतराज: चित्रग्रीव: निर्गत:। तदा तण्डुलकणानामुपरि कपोतानां लोभो जात:। परन्तु राजा तत्र सहमत: नासीत्। तस्य युक्ति: आसीत् यदि निर्जने वने कोऽपि मनुष्यो नास्ति तर्हि कुतो वा तण्डुलकणानां सम्भव:? यदा राज्ञ: उपदेशमस्वीकृत्य ते नीचै: आगता, तदा जाले निपतिता:। अत: उक्तम् ‘ सहसा विदधीत न क्रियाम्’।