Essay on Himalay in sanskrit
Answers
Answer:
भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । "हिमालयः” इति नाम्नः श्रवणमात्रेण सर्वस्य अपि भारतीयस्य हृदयं विकसितं भवति । हृदये अनेके दिव्यभावाः सञ्चरन्ति । शारीरे रोमाञ्चः सञ्जायते च । भारतस्य संस्कृतेः पृष्ठभूमिः हिमालयः अस्ति । देशस्य पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? क्व जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः । हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराणि अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः इत्यर्थः । हिमालयस्य उगमः विकासश्च प्रपञ्चे अत्यन्तम् उन्नतपर्वतश्रेणिषु हिमालयः अपि अन्यतमः । प्रायः २५ कोटिवर्षेभ्यः पूर्वं पाञ्जीया भूभागः द्विधा विभक्तः भूत्वा इण्डोआस्ट्रेलियन् भूभागः युरोपियन् भूभागसमीपे प्लवते स्म । प्रायः ४-७ कोटिवर्षेभ्यः पूर्वं द्वयोः एतयोः भूभागयोः मध्ये सङ्घट्टनकारणात् हिमालयः उत्पन्नः । प्रायः २-३ कोटिवर्षेभ्यः पूर्वम् अद्य यत् भारतम् अस्ति सः प्रदेशः 'टेनिस्’ नाम सागरः आसीत् । सः सागरः पूर्णतया विनष्टोऽभवत् । इण्डोआस्ट्रेलियन् भूभागः अद्यपि टिबेटभूभागस्याधः मन्दं प्लवते (सामान्यतः वर्षे २ से.मी परिमितम्) पुनः अग्रिमकोटिवर्षेषु प्रायः १८ से.मी परिमितः भूभागः चलति । अनेन-कारणेन हिमालयपर्वतश्रेणी वर्षे अर्धसेन्टिमीटर् पर्यन्तं वर्धते । आसीस् प्रदेशे (अनेन चलनेन) बहुवारं भूकम्पः अपि भवति ।
Answer:
हिमालयः एकः पर्वतः अस्ति। अयं पर्वतेषु महान् पर्वतः अस्ति। अत एव अयं पर्वतराज उच्यते। अस्मिन् पर्वते हिमस्य अधिकता अस्ति। तेन अस्य हिमालय इति नाम अस्ति। अयं पर्वतः उत्तरदिशायाम् अस्ति। अस्य अनेकानि शिखराणि अतीव उच्चतमानि सन्ति। अस्य गौरीशंकरनामाकं शिखरं संसारस्य सर्वेषु शिखरेषु उच्चतमं मन्यते। अयं पर्वतः भारतस्य उत्तर्दिशाया: महाबलवान् प्रहरी अस्ति। अत्र नानाविधा वनस्पतयः विविधानि फलानि तथा नानाप्रकारणि खाद्यवस्तूनि च उपलभ्यते। अस्मिन् पर्वते अनेकानि तीर्थस्थानानि च सन्ति। बहूनां मुनीनां तपोवनानि विद्यन्ते। अत एव संस्कृतग्रंथेषु हिमालयस्य अतीव महत्वपूर्ण वर्णनं मिलति।