India Languages, asked by gunsheenkaur798, 1 year ago

essay on himalaya in sanskrit

Answers

Answered by smynica2541
60
भारतस्य उत्तरदिशि सीमाप्रदेशे स्थितः महान् पर्वतः एव हिमालयः । “हिमालयः” इति नामश्रवणमात्रेण सर्वस्य अपि हिन्दोः हृदयं विकसितं भवति, अनेके दिव्यभावाः सञ्चरन्ति, रोमाञ्चः सञ्जायते च । अस्माकं संस्कृतेः पृष्ठभूमिका अस्ति हिमालयः । अस्मत्पूर्वजाः कथम् अजीवन् ? किम् अचिन्तयन् ? कुत्र कुत्र जयम् प्राप्नुवन् ? कुत्र च पराजिताः अभवन् ? इत्येतादृशीणां सहस्रशः घटनानां मूकसाक्षी अस्ति हिमालयः ।हिमालयः हिमालयपर्वतश्रेणिः टिबेटप्रस्तभूमेः भारतोपखण्डं पृथक्करोति । एवरेस्टशिखरेण सह प्रपञ्चे अत्यन्तमुन्नत्ताः पर्वतशिखराः अत्रैव अन्तर्भवन्ति । तथैव द्वे प्रमुखे नद्यौ हिमालयतः एव प्रवहतः । संस्कृतभाषया हिमालयः इत्युक्ते हिमस्य आलयः (हिम+आलयः) इत्यर्थः ।हिमालयपर्वतश्रेणी पश्चिमदिशि ‘नङ्गापर्वत’तः पूर्वदिशि ‘नाम्चे बर्वा’ पर्यन्तं प्रायः २४०० कि.मी.दीर्घः वर्तते। अस्य विस्तीर्णता २५०*३०० कि.मी .हिमालयश्रेणिषु अनेकाः हिमनद्यः सन्ति । ध्रुवप्रदेशं विहाय प्रपञ्चे अतिदीर्घा हिमनदी सियाचिन अत्रैवास्ति ।
Similar questions