India Languages, asked by GeneralAyush1, 1 year ago

essay on Sanskrit in Sanskrit

Answers

Answered by padmanava
22
॥ संस्कृतस्य माहात्म्यम् ॥ भाषासु मुख्या मधुरा प्राचीना विश्वतोमुखी । भाति संस्कृतभाषेयं सर्वदा सर्वदा सती ॥ १॥ उन्नतेन स्थितिमता हिमवद्भूभृता यथा । त्वङ्गत्तरङ्गया पुण्यसरिता गङ्गया यथा ॥ २॥ तथैव भारतोर्वीयं दिव्यसंस्कृतभाषया । सरस्वत्यापि विख्याता विभाति वसुधातले ॥ ३॥ इयं भारतसंस्कारकोशागारस्य कुञ्चिका । भाषान्तराणां माता वा धात्रि वा स्तन्यदा चिरम् ॥ ४॥ संस्कारवत्यो जगति सन्तु भाषाः परःशतम्। तथापि संस्कृताभिख्या नान्यस्या दृश्यते क्वचित् ॥ ५॥ बृहस्पतिः पुरा दैविं प्रोवाचेन्द्राय भारतीम् । इन्द्रेण व्याकृता पश्चादियं देवहितैषिणा ॥ ६॥ संस्कृत्य संस्कृत्य पदानीह वाक्यं करोति हि । तेन संस्कृतभाषेति भाष्यकारः पतञ्जलिः ॥ ७॥ आर्याणां मातृभाषेयमार्यावर्तनिवासिनाम् । आसीत् पुरा पाणिनीये भाषाशब्देन वर्णिता ॥ ८॥ मृतभाषेति जल्पन्तु मृतसंजीविनीमिमाम् । पामराः पण्डितम्मन्याः परमार्थपराङ्मुखाः ॥ ९॥ पूर्णापि स्वीचकारैषा भाषान्तरपदान्यपि । सरिद्भ्यो नीरमादत्ते सम्पूर्णोऽप्यम्भसां निधिः ॥ १०॥ देशभाषाविकासार्थं तत्तद् भाषासु पण्डिताः । स्वीकृर्वन्ति यथाकामं संस्कृतात् पदसंचयम् ॥ ११॥ ``सम्परिभ्यां करोतौ सुट्” भूषणार्थे विधीयते । तेन भूषितभाषेति विख्याता पाणिनेर्मते ॥ १२॥ न केवलं भूषिता सा भूषयत्यपि भाषकान् कुमारसम्भवे काव्ये कालिदासवचो यथा । ``संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च” इति ॥ १३॥ द्विजानां व्यवयहारो हि संस्कृतेनैव सर्वदा । आसीदिति ज्ञातमिह वाल्मीकेर्वचनामृतात् ॥ १४॥ आरण्यकाण्डे वातापिकथायां दृश्यते किल । ``धृत्वेल्वलो विप्ररूपं संस्कृते व्याजहार ह” ॥ १५॥ ``धारयन् ब्राह्मणं रूपमिल्वलः संस्कृतं वदन् । आमन्त्रयति विप्रान् स्म श्राद्धमुद्दिश्य निर्घृणः” ॥ १६॥ हनुमत्कृतशङ्कापि सुन्दरे काण्ड ईरिता । एतदेव ज्ञापयति संस्कृतस्य स्थितिं तदा ॥ १७॥ ``यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृतम्” । रावणं मन्यमाना सा सीता भीता मविष्यति ॥ १८॥ ``यतो वाचो निवर्तन्ते अप्राप्य मनसा सह” । चिद्रूपिणी सा वागेव शब्दब्रह्माह्वया परा ॥ १९॥ दिवोऽवतीर्णा गङ्गेव लोकानुग्रहतत्परा । प्रत्यात्मवृत्तिदृष्टा सा पश्यन्ती प्रतिभा मता ॥ २०॥ भाषावैविध्यमापन्ना मध्यमारूपमाश्रिता । वक्तृश्रोतृमनःसिद्धा वर्तते संहृतक्रमा ॥ २१॥ ध्वनिरूपमथापन्ना वैखरी वाक् प्रकाशते । व्यवहारे मनुष्याणां साहाय्यं कुर्वती सदा ॥ २२॥ वाल्मीकिव्यासमुख्यैश्च लालिता पोषिता चिरम् । जीयात् समाः सहस्रं सा ज्योतीरूपा सरस्वती ॥ २३॥ अशक्नुवद्भिव्यर्हर्तुं देशभाषान्तरे बुधैः । स्वीकृतं संस्कृतमिति श्रीहर्षोऽप्यवदत् सुधीः ॥ २४॥ अन्योन्यभाषान्वबोधभीतेः संस्कृत्रिमासु व्यवहारवत्सु । दिग्भ्यः समेतेषु नरेषु तेषु सौवर्गवर्गो स्वजनैरचिह्नि ॥ २५॥ -- नैषध १०.३४ काश्मीरे जन्मभाषावत् संस्कृतं प्राकृतं तथा । स्त्रीणामपि मुंखेष्वासीदित्येवं बिल्हणोऽब्रवीत् ॥ २६॥ ब्रूमः सारस्वतजनिभुवः किं निधेः कौतुकानाम् यस्यानेकाद्भुतगुणकथाकीर्णकर्णामृतस्य । यत्र स्त्रीणामपि किमपरं जन्मभाषावदेव प्रत्यावासं विलसति वचः संस्कृतं प्राकृतं च ॥ २७॥ -- विक्रमाङ्कदेवचरितम् १८.६

padmanava: Hope you liked it
Answered by surbhigupta2460
1

1. देवभाषा वेदभाषा च भवति संस्कृतं ।

2. सम्यक् कृतं इति संस्कृतं ।

3. इयं भाषा देववाणी इति कथ्यते ।

4. वेदाः , रामायणः , महाभारतः , भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि ।

5. सर्वासु भाषासु अपेक्षया संस्कृतभाषायां अधिकपदानि सन्ति ।

6. इयं भाषा वैद्यशास्त्रेष्वपि उपयुज्यति ।

7. इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं ।

8. परन्तु अद्य एतम् भाषायाः स्थिति अत्यन्तं शोचनीयं ।

9. भारतदेशे संस्कृतं मृतभाषा इति ज्ञातः ।

10. जनाः संस्कृतविषये तत्परः नास्ति ।

Similar questions