India Languages, asked by Aiswarya27, 6 months ago

essay on teacher's day in sanskrit?​

Answers

Answered by anand0157
2

आज शिक्षक दिन:

श्रीगणेशाय नम: l

’शिक्षकदिनं”

शिक्षकदिनं सप्टम्बरमासस्य पञ्चमे दिनाङ्के आ ( भारतम् ) आचर्यते । इदं दिनं डॉ. सर्वपल्ली राधाकृष्णन् महोदयस्य जन्मदिनम् । सः कश्चित् उत्तमः शिक्षकः आसीत् यः शिक्षणक्षेत्रम् अतीव प्रीणाति स्म । तस्य सम्माने एव तस्य जन्मदिनाङ्के शिक्षकदिनम् आचर्यते ।

२ ) शिक्षणस्य शिक्षकस्य च महत्त्वम् –

शिक्षणम् एव मानवतां बोधयति। शिक्षणेन विना मानवजीवनं पशुवदेव । प्राचीनकाले अस्माकं देशे गुरुप्रणाल्या शिक्षणं प्रचलति स्म । गुरूणाम् आश्रमाः/गुरुकुलानि आसन् येषु गुरवः छात्रेभ्यः शिक्षणं यच्छन्ति स्म । किन्तु इदानीं जनसङ्ख्यायाः वर्धनात् पाश्चात्यसंस्कृत्याः प्रभावेन च शिक्षणपद्धतिः परिवर्तिता अस्ति । वर्तमानकाले प्रतिनगरं प्रतिग्रामं शिक्षणप्रदानार्थं शैक्षणिकसंस्थाः सन्ति । तथापि सर्वेभ्यः शिक्षणं न प्राप्यते ।

शिक्षणाय विद्यालयानां निर्माणं छात्राणां भवनानां शिक्षकाणां च प्रबन्धनं प्रशासनस्य कर्तव्यम् उत्तरदायित्वं च अस्ति । किन्तु तेषु शिक्षकः प्रमुखः महत्वपूर्णः च अस्ति । शिक्षकाः चरित्रवन्तः लोभरहिताः परोपकारिणः च भवन्ति चेत् छात्रान् सम्यक्तया मानवतायाः पाठं पाठयितुं शक्नुवन्ति । प्राचीनकाले सर्वेऽपि गुरवः उपर्युक्तस्वभाववन्तः आसन् । वर्तमानकालः धनप्रधानः अस्ति इत्यतः शिक्षकेभ्यः अपि वेतनस्य अत्यावश्यकता वर्तते । शिक्षक: एव प्रत्येकं जनं मौलिकजीवनम् अध्यापयति । अतः शिक्षकाणां सम्माननाय शिक्षकदिवसस्य आचरणस्य परम्परा प्रारब्धा ।

३ ) शिक्षकदिवसस्य आयोजनम् —

शिक्षकदिवसे शिक्षणसंस्थाः सांस्कृतिकोत्सवं आयोजयन्ति । अस्मिन् दिवसे शालासु विद्यालयेषु वा स्पर्धाः भवन्ति । तासु स्पर्धासु विद्यार्थिनः उत्साहपूर्वकं भागं गृह्णन्ति स्वशिक्षकान् आनन्दयन्ति च । महाविद्यालयेषु, विश्वविद्यालयेषु च शिक्षकदिवसे योग्यानां पदवीधरछात्राणां शिक्षकत्वेन चयनं भवति । शिक्षकाः तादृशान् छात्रान् प्रेरयित्वा अन्यत्र पाठनार्थं प्रेषयन्ति । ४ ) शिक्षकाणां सम्माननम् —

शिक्षकदिवसे शैक्षणिकसंस्थाः केवलं पुष्पमालां प्रमाणपत्रं च दत्त्वा श्रेष्ठशिक्षकान् सम्मानयन्ति । किन्तु अन्यां कामपि विशिष्टव्यवस्थां न ददति । वर्तमानकाले कोऽपि जनः शिक्षकस्य महत्वं न जानाति । अतः जनान् शिक्षकस्य महत्वं बोधयित्वा शिक्षकेभ्यः सर्वत्र उत्तमस्थानं कल्पनीयम् ।

शिक्षकाणामपि दायित्वमस्ति यत् तैः आदर्शचरित्रानुसारं समाजस्य मार्गदर्शनं करणीयम् । शिक्षकैः धूम्रपानं मदिरापानं अन्यत् दुर्व्यसनं वा न करणीयम् । शिक्षकैः विशेषशिक्षणवर्गाः न चालनीयाः । तैः छात्रेभ्यः विद्यालये एव सम्पूर्णशिक्षणं दातव्यम् । श्रेष्ठशिक्षकाः सदैव सम्मानं प्राप्नुवन्ति ।

जयतु शिक्षकदिनम् l

Mark as brainliest answer !!

Similar questions