Hindi, asked by mamtarathore29091984, 6 months ago

essay on Vidya in Sanskrit please give answer fast and get 100 points​

Answers

Answered by blossom35
2

Answer:

The textile industry contributes significantly to industrial production. i.e.14%. It is the only industry in India which is self-reliant and complete in the value chain, i.e. from raw material to the highest value added products.

Hope it can help you and please mark me as a brainlist and follow me.

Answered by renuthakur3333
23

Answer:

अस्माकं साहित्ये विद्याया महान् महिमा श्रूयते । विद्या एव मनुष्यस्य पाश्र्वे ईदृशं तत्त्वं येन तस्मिन् वैशिष्ट्यं सम्पद्यते, स च पशुभिभिन्नः पृथगेव दृश्यते । यदा शिशुः जायते, तदा सः पशुतुल्य एव भवति, किन्तु पश्चात् विद्यया तस्य द्वितीयं जन्म इव भवति । तदा सः अधिकतरं शोभते । येषां विद्या न भवति ते वस्त्राभूषणालङ्कृता अपि सभामध्ये मूर्खताकारणात् न शोभन्ते, ये पुनः विद्यावन्तो भवन्ति, ते सर्वत्र शोभन्ते, पूज्यन्ते, सम्मान्यन्ते च । अत एवोच्यते स्वदेशे पूज्यते राजा विद्वान् । सर्वत्र पूज्यते । राज्ञः मानः धनैश्वर्यकारणात् केवलं स्वराज्ये भवति परन्तु विद्वत्तायाः सर्वत्र सम्मानः भवति । यदि कश्चिद् राजा विद्वांसं स्वदेशात् निष्कासयति, तथापि सः देशान्तरं गत्वा स्वविद्वत्तया ख्याति लभते ।

अस्मिन् संसारे मनुष्यः विद्ययैव सभ्यं वाग्व्यवहारं जानाति । वाक्चातुर्येण सः सर्वेषां मनांसि जेतुं समर्थोऽस्ति । विद्यैव तादृशं धनं यत् केनापि चोरयितुं न शक्यते । अस्य धनस्य तु प्रवृत्तिः विपरीता एव। अन्यधनस्य तु दानेन क्षयो भवति परन्तु विद्या रूपस्य धनस्य दानेन वृद्धिः भवति । यदि वयमन्यमध्यापयाम, स्तदा ऽ स्माकं ज्ञानं वर्धते एव । संकटकालेऽपि विद्या नरं रक्षति विद्यया मनुष्यः संसारस्य वास्तविक तत्त्वं जानाति महान्ति कष्टानि च हसन्नेव सहते । विद्यैवास्माकं मित्रम् । वयं कुत्रापि स्याम, अन्यः कश्चिदस्मान् न जानीयात्, परन्तु स्वविद्यया 5 स्माकं कालः गच्छति, अस्माकं विद्यया प्रभाविताश्चान्येऽप्यस्माकं मित्राणि भवन्ति । मनुष्यः विद्ययैव चिन्ताक्षणेष्वपि शान्तिं लभते । विद्या मनुष्ये धैर्य सञ्चारयति, सा तस्य हृदये अहिंसास्तेयत्यागादिभावान् जनयति येन सः स्वार्थं त्यक्त्वा जनहितमपि वितनोति । विद्यावन्त एवं जना नेतारो भवन्ति, अन्येभ्यः साधुमार्ग प्रदर्शयन्ति। भर्तृहरिणा एकस्मिन् पद्ये विद्याया व्यापकं महत्त्वमेवं वर्च्यते-

विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं

विद्या भोगकरी यशस्सुखकरी विद्या गुरूणां गुरुः ।

विद्या बन्धुजनो विदेशगमने विद्या परा देवता ।

विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥

अतः यदि मनुष्यः समाजोत्कर्षम् आत्मोत्कर्षं च वाञ्छति,

तदा तेन विद्योपार्जनमवश्यमेव कर्तव्यम् । विद्ययैव शान्तिपूर्वक सम्मानपूर्वकं च जीवितुं शक्नोति जनः ।

Similar questions