Hindi, asked by rishi681, 1 year ago

five sentences on Guru Nanak Dev ji in Hindi to Sanskrit​

Answers

Answered by roysharanjeet
14

सिखसंप्रदायस्य गुरोः नानकस्य नाम को न जानाति? समाजसुधारकेषु अयम् अग्रगण्यः। गुरु नानकः श्रेष्ठः समाजसुधारकः तथा चिन्तकः आसीत्।

अस्य महापुरुषस्य जन्म 1467 तमे वर्षे पञ्चनदप्रान्ते तलवण्डी ग्रामे अभवत्। अस्य पितुः नाम श्रीमान् कालुचन्द्रः आसीत्। बाल्यदेव गुरु नानक; एकान्तप्रियः आसीत्। तस्य मन: क्रीडने न रमति स्म। अस्य पिता नानकस्य वैराग्यवृत्ति: दृष्टवा; तथा एकान्तप्रिय स्वभावमवलोक्य खिन्नः आसीत्। तस्य इच्छा आसीत् यत् नानक अपि व्यापार कार्यो संलग्नः भवेत् किन्तु नानकस्य रुचिः व्यापारकार्येनासीत्। अकिंचनाय धनं वस्त्ररहिताय वस्त्रं, क्षुधापीड़िताय भोजनं एतदेव नानकस्य कर्म आसीत्। एकदा नानकस्य पिता तस्मै कानिचित् रुप्यकाणि व्यापारार्थम् अयच्छत्।। किन्तु नानकः तै रुप्यकैः साधवेभ्यः भोजनम् अददात तथा च रिक्तहस्तः गृहमागच्छत्। एतत् दृष्ट्वा तस्य पिता अतीव दुःखितः अभवत्। तेन ज्ञातं यत् नानक कदापि व्यापारी न भविष्यति। ईश्वरमकत्यां संलग्न: नानक एकस्मिन् दिने गृहमत्यजत।

गृहं त्यक्त्वा नानक साधूनां समीपे अवसत्। ईश्वरभक्त्या सः देवीसम्पन्न अभवत्। तस्य मुखे अद्वितीयं तेज विलसति स्म।

गुरुनानकस्य उपदेशाः श्रवणीयाः। ते सर्व समाजकल्याणार्थम् एव सन्ति। तान् उपदेशान् अनुसृत्य नानकस्य अनेके शिष्याः अभवन्। अद्यत्वे अपि गारुनानकस्य उपदेशाः सर्वत्र पठन्ति।

नानकसंप्रदायेन अनेकानि समाजकार्याणि कृतानि। स्थाने स्थाने पेयजल व्यवस्था कृता। अद्यापर्यंत नानकशिष्या: जनकल्याणं कुर्वन्ति।

Similar questions