football essay in Sanskrit in 40 words
Answers
पादकन्दुकक्रीडा(Football) कन्दुकक्रीडायाम् एका प्रसिद्धा क्रीडा । इतिहासाधारेणेयं क्रीडा ईसातः ५०० वर्षपूर्वं यूनानदेशस्य 'स्पार्टा’ नाम्नि स्थाने सर्वप्रथममभवत् पादकन्दुक्-क्रीडा द्वयोएदलयोर्मध्ये भवति। तत्र प्रतिदलं क्रीडकानां संख्याऽधिकाधिकमेकादश ११ मिता समुचिता मन्यते । दलस्यैको नायको भवति, यः स्वस्य दलस्य व्यवस्थापने समयानुसारं क्रीडकस्य स्थानपरिवर्तने च समर्थो भवति । -१-२-३-२-३ इति नियमेन क्षत्र वतमानाः क्रीडार्थिनः कन्दुकं प्रत्याक्रमणाद्वारयितुं विपक्षसीम्नि प्रवेशयितुं च यतन्ते ।
फुट्बाल्-क्रीडायाः श्लोकः
उच्चैः कन्दुकमुत्पतन्तमथवा दूरे व्रजन्तं पुनः
गत्या तीव्रतयाऽऽगतं पर-दलाक्रान्तं दलक्रीडकाः ।
यस्यामाशु विपक्षसीम्नि सुधिया हन्त ! प्रवेष्टुं रताः
पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥
क्रीडाङ्गणे चरण-कन्दुकमुत्पतन्तं
क्रीडाकृदाप्य परिखेलति खेलकोऽत्र ।
धावन पतन्नथ चलत् प्रहरंश्च पदभ्यां
हर्ष चिरं वितनुते मनुते न दुःखम् ॥