English, asked by priyamkumaripriyamku, 5 months ago

हमारे विद्यालय वर्षित वर्षिक उत्सव है को संस्कृत में क्या कहते हैं आंसर
हमारे हमारे विद्यालय में वार्षिक उत्सव है को संस्कृत में क्या कहते हैं ​

Answers

Answered by Anonymous
15

Explanation:

अस्माकं विद्यालये प्रतिवर्षं वार्षिकोत्सव: भवति। छात्राः अध्यापका: च सर्वे मिलित्वा वार्षिकोत्सव मानयन्ति। अस्मिन् वर्षे गतसप्ताहे एव विद्यालयस्य वार्षिकोत्सवः अभवत्। तत्र सर्वे: छात्रै : भाग: गृहीतः। नवीनगणवेशं धारयन् सर्वे छात्रा: उपस्थिता: आसन्। तेषाम् अभिभावका: अपि अतिशयेन उत्साहेन आगच्छन्। उत्सवात् सप्ताहपूर्वमेव विद्यालयस्य कक्षान् चित्रैः मूर्तिभि: च अलङ्कृतान् अकुर्वन्। शिक्षानिदेशकः वार्षिकोत्सवस्य मुख्य अतिथिः आसीत्। विद्यालये वाद्यवृन्देन तस्य स्वागतं कृतम्। प्रधानाचार्येण तस्मै पुष्पहार: समर्पितः। प्रार्थनानन्तरं कवितापाठः अभवत्। केचन छात्रा: गीता-श्लोकानि अगायन्। एकम् एकांकीनाटकं अपि अभवत्। चतिस्त्रभि: बालिकाभिः सुन्दरं नृत्यं कृतम्। अध्यक्षमहोदय: योग्येभ्यः छात्रेभ्य: पारितोषिकानि अयच्छत् । अध्यक्षमहोदयः अस्माकं कार्यक्रमं प्राशंसत्। अन्ते प्रधानाचार्य: शिक्षानिदेशकं धन्यवादम् अवदत्। एवं वार्षिकोत्सवः महोत्साहेन, उल्लासेन च संपन्नोऽभवत्।

Please mark me as brainlliest

Similar questions