India Languages, asked by Somprakash16, 1 month ago

IV. गद्यांशस्य उपयुक्तं शीर्षक दयम्।
4. चिन्मयः एकः चतुरः बालः अस्ति। जनकः अम्बा च यदा तं पश्यतः तदा एव तुष्यतः। चिन्मयस्य द्वे भगिन्यौ
अपि स्तः। ते सर्वे प्रातः मातापितरम् नमन्ति। ज्येष्ठा भगिनी वैशाली पठने अतीव कुशला अस्ति। अनुजा
मिताली अपि कुशाग्रबुद्विः अस्ति। ते चिन्मयम् अपि पाठयतः। माता तेभ्यः सूपम् ओदनं च पचति। जनक:
रमणः सर्वेभ्यः मिष्टान्नानि फलानि च आनयति। सः सर्वेभ्यः क्रीडनकानि अपि क्रीणाति। ते ग्रीष्मावकाशे
भ्रमणाय गच्छन्ति। चिन्मयः, वैशाली मिताली च समये समये जनकस्य अम्बायाः च सहायतां कुर्वन्ति। ते
सर्वे मिलित्वा एव सर्वाणि कार्याणि कुर्वन्ति। एते बालकाः तु सुयोग्या: चतुराः च सन्ति। अतएव तेषां परिवारे
समृद्धिः सुखं च स्तः।
I. एकपदेन उत्तरत-
(i) वैशाली पठने कीदृशी?
(ii) सूपौदनं का पचति?
II. पूर्णवाक्येन उत्तरत-
(i) जनक: बालेभ्यः किं करोति?

Answers

Answered by prathameshgovilkar1
3

Answer:

१) अतीव कुशला।

२) माता।

१) जनकः बालेभ्यः मिष्टान्नानि फलानि च आनयति तथा च सर्वेभ्यः क्रीडनकानि अपि क्रीणाति।

Similar questions