Science, asked by parmanandrishiraj, 8 months ago

किञ्चित् जानाति इति|

Answers

Answered by KhataranakhKhiladi2
9

यदा किञ्चित्झोऽहं गज इव मदान्धः समभवम्

तदा सर्वज्ञोऽस्मीत्यभवदलिप्तं मम मनः

यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम्

तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः ॥

१ सन्धि-विच्छेदान् कृत्वा समासानां पदानि च दर्शयित्वा ।

यदा किञ्चित्झः अहम् गजः इव मद-अन्धः समभवम्

तदा सर्वज्ञः अस्मि इति अभवत् अलिप्तम् मम मनः

यदा किञ्चित् किञ्चित् बुध-जन-सकाशात् अवगतम्

तदा मूर्खः अस्मि इति ज्वरः इव मदः मे व्यपगतः ॥

२ समासानां विग्रहाः शब्दानां व्युत्पत्तयः विश्लेषणानि च ।

१ यदा (= when) अव्ययम् ।.

२ किञ्चित्झः

२.१ किञ्चित् झः = किञ्चित्झः । कर्मधारयः

२.२ किञ्चित् “किम् + चित्” (= little, somewhat) इति सार्वनामिकम् विशेषणम् । अत्र अव्ययस्वरूपि ।

२.३ झः “झ” (= sleeping, drowsy, inattentive, negligent) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

२.४ किञ्चित्झः “किञ्चित्झ” (= somewhat negligent)  इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अहम् “अस्मद्” (= I, we pronouns of first person, common in all genders) इति प्रथम-पुरुषि सर्वनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

४ गजः “गज” (= elephant) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

५ इव (= like, similar to) अव्ययम् ।.

६ मद-अन्धः ।

६.१ मदेन अन्धः = मदान्धः । तृतीया-तत्पुरुषः ।

६.२ मदेन “मद्” ४ प. (= to be intoxicated) । इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि भाववाचकम् नाम “मद” (= intoxication, ego, pride) । तस्य तृतीया विभक्तिः एकवचनम् च ।

६.३ अन्धः “अन्ध” (= blind) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

६.४ मदान्धः “मदान्ध” (= blind due to intoxication) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

७ समभवम् “सम् + भू” १ प. (= to become) इति धातुः । तस्य लङ्-प्रथम-(अनद्यतन)-भूते प्रथमपुरुषे एकवचनम् ।

८ सर्वज्ञः ।

८.१ सर्वम् जानाति = सर्वज्ञः । उपपद-तत्पुरुषः ।

८.२ सर्वम् “सर्व” (= all, everything) इति सार्वनामिकम् विशेषणम् । अत्र नपुंसकलिङ्गि । तस्य द्वितीया विभक्तिः एकवचनम् च ।

८.३ जानाति “ज्ञा” ९ उ. (= to know) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।

८.४ सर्वज्ञः “सर्वज्ञ” (= all-knowing) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

९ अस्मि “अस्” २ उ. (= to be) इति धातुः । तस्य लट्-वर्तमाने तृतीय-पुरुषे एकवचनम् ।

१० इति (= thus) अव्ययम् ।

११ अभवत् “भू” १ प. (= to be) इति धातुः । तस्य लङ्-प्रथम-(अनद्यतन)-भूते तृतीयपुरुषे एकवचनम् ।

१२ अलिप्तम् ।

१२.१ न लिप्तम् = अलिप्तम् । नञ्-तत्पुरुषः ।

१२.२ लिप्तम् “लिप्” ४ प्. (= to coat, to paste, to attach) इति धातुः । तस्मात् कर्मणि-भूतकालवाचकम् विशेषणम् “लिप्त” (= attached) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१२.३ अलिप्तम् = unattached, aloof, disinterested, indifferent

१३ मम “अस्मद्” (= First pronoun I, we) इति प्रथम-पुरुषि सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च ।

१४ मनः “मनस्” (= mind) इति नपुंसकलिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१५ बुध-जन-सकाशात् ।

१५.१ बुधः जनः = बुधजनः । कर्मधारयः ।

१५.२ काशेन सह = सकाशम् । उपपद-तत्पुरुषः ।

१५.३ बुध-जनस्य सकाशात् = बुध-जन-सकाशात् । षष्ठी-तत्पुरुषः ।

१५.४ बुधः “बुध्” १ उ. ४ आ. (= to know) इति धातुः । तस्मात् “अ”-प्रत्ययेन विशेषणम् प्रायः पुल्लिङ्गि “बुध” (= knowing, knowledgeable)। तस्य प्रथमा विभक्तिः एकवचनम् च ।

१५.५ जनः “जन” (= person, people) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१५.६ काशेन “काश्” ४ आ. (= to appear, to be visible) इति धातुः । तस्मात् “अ”-प्रत्ययेन पुल्लिङ्गि नाम “काश” (= appearance) । तस्य तृतीया विभक्तिः एकवचनम् च ।

१५.७ सह (= with) अव्ययम् । सम्बन्धितस्य शब्दस्य तृतीया विभक्तिः ।

१५.८ सकाशात् “सकाश” (= visible with) इति विशेषणम् । प्रायः पुल्लिङ्गि । तस्य पञ्चमी विभक्तिः एकवचनम् च । सकाशम् तथा सकाशात् द्वे अपि प्रायः क्रियाविशेषणे अव्यये इव प्रयुज्येते ।

१५.९ बुध-जन-सकाशात् = by being seen with knowledgeable people, in the company of knowledgeable people, from wise people

१६ अवगतम् “अव + गम्” १ प. (= to go under, to understand) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “अवगत” (= understood, learnt) । अत्र नपुंसकलिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१७ मूर्खः “मूर्ख” (= foolish, fool) इति विशेषणम् । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१८ ज्वरः “ज्वर” (= fever) इति पुल्लिङ्गि सामान्यनाम । तस्य प्रथमा विभक्तिः एकवचनम् च ।

१९ मे “अस्मद्” (= First pronoun I, we) इति प्रथम-पुरुषि सर्वनाम । तस्य षष्ठी विभक्तिः एकवचनम् च

२० व्यपगतः “वि + अप + गम्” १ प. (= to drive away) इति धातुः । तस्य कर्मणि-भूतकालवाचकम् विशेषणम् “व्यपगत” (= driven away, removed) । अत्र पुल्लिङ्गि । तस्य प्रथमा विभक्तिः एकवचनम् च ।

३ अन्वयाः अनुवादाः च ।

यदा अहम् मद-अन्धः गजः इव किञ्चित्झः समभवम् = When I became somewhat inattentive like an intoxicated elephant

तदा सर्वज्ञः अस्मि इति मम मनः अलिप्तम् अभवत् = my mind became indifferent (to learning), (thinking) that I know it all

यदा बुध-जन-सकाशात् किञ्चित् किञ्चित् अवगतम् = When I started understanding little by little in the company of the wise

मूर्खः अस्मि इति ज्वरः इव मे मदः व्यपगतः = (Realising) how foolish I was, my intoxication (ego, pride), (which had afflicted me) like a feverish malady, started going away. My intoxication started getting removed

४ टिप्पणयः ।

Answered by Anonymous
1

Answer:

refer the image..............................................

Attachments:
Similar questions