World Languages, asked by sellusenapati954043, 9 months ago

कार्यपत्रम्-३
विषयः-संस्कृतम् (अपठितावबोधनम)
कक्षा-
दिनांक:-
कक्षाशिक्षकस्य शिक्षिकाया नाम
छात्रस्य/छात्राया. नाम..
सह
"अम्ब! अहमपि अनुजेन देवेशेन क्रीडितुं बहिर्गच्छामि, वारं पिधेहि
कृपया।"
पुत्र्या: इदं वच: निशम्य रमा स्वशैशवं प्राप्ता विचारमग्ना चाभवत्-यदा ममानुज: क्रीडनाय बहिर्गच्छति स्म
तदा अहं स्वपितृभ्यां गृहकार्यार्थं पठनार्थ चैव प्रेरिता येनाऽहं गृहस्योत्तरदायित्वनिर्वाह शिक्षाक्षेत्रे च श्रेष्ठाऽभवम्।
परमद्यापि एका कुण्ठा मनसि यदाकदा जायते यदहं पाठ्यसहगामिक्रियासु क्रीडासु वा कदापि उत्तम प्रदर्शनं
कर्तुं समर्था नाऽभवम्। अद्य मत्सदृश्य: नार्य: वायुयानं चालयन्ति ता: शिक्षिका: चिकित्सिका: अधिकारिण्य:
प्रशासिका: वा भूत्वा गृहस्योत्तरदायित्त्वमपि निर्वहन्ति। क: दोष: आसीन्मम यत् निपुणा सत्यपि अहमेतादृशं
किमपि कर्तुं नापारयम्। अस्तु तावत्! चिन्तयाऽलम्। अहं पुत्र्यै तादृश्य: सर्वा: सुविधा: अवश्यमेव प्रदास्यामि
येन तस्याः मनसि एतादृश्या: कुण्ठाया: अवकाश: एव न स्यात्।
अभ्यास:
(1)एकपदेन उत्तरत-
(क) रमा काभ्यां गृहकार्यार्थ पठनार्थं च प्रेरिता?
(ख) रमा कस्यै सर्वाः सुविधा: प्रदास्यति?
(ग) रमायाः पुत्री केन सह क्रीडितुं बहिर्गच्छति?
(घ) रमा कस्य निर्वाह श्रेष्ठा अभवत?​

Answers

Answered by Anonymous
6

Answer:

Sorry mate can't understand sanskrit

Similar questions