कश्चित् बाल: आसीत्। सः बङ्गप्रदेशे एकस्मिन् विद्यालये पठति स्म। स: अतीव जिज्ञासुः आसीत्। परन्तु स: पठने कुशलः न आसीत्। सः यत् पठति तत् विस्मरति स्म। सहपाठिन: तस्य उपहासं कुर्वन्ति स्म। स: चिन्तयति-किम् अहं मूर्खः अस्मि? किं मम भाग्ये विद्या न अस्ति? परन्तु अहं तु पठितुम् इच्छामि। तदा किं कर्तव्यम्? एकदा सः मार्गे एकं कूपम् अपश्यत्। कूपस्य उपरि एकः घटः आसीत्। सः घटस्य अधः एक गर्तम् अपश्यत्। सः अचिन्तयत्-इमं सुन्दरं गतं कः निर्मितवान् ?) स: मातरम् अपृच्छत्-मातः! अहं कूपे घटस्य अधः एकं गर्तम् अपश्यम्। तं गर्तम् कः निर्मितवान्? माता अवदत्-पुत्र! प्रतिदिनं भूयो भूयः घट-स्थापनेन सः गर्त: निर्मितः । ) स: बाल: विचारमग्नः अभवत्। सः अचिन्तयत् (यदि भूयो भूयः घटस्थापनेन पाषाणशिलायां गर्तः अभवत् तद किं पुनः पुनः पठनेन मम मतिः तीव्रा न भविष्यति?) इति विचार्य सः विद्याभ्यासे संलग्नः अभवत्। सः पुनः पुनः पाठान अपठत्। पुन: पुन: लेखनस्य अपि अभ्यासम् अकरोत्। शनैः शनैः सः बुद्धिमान् अभवत्। सः परीक्षायां विशिष्टं स्थान प्राप्तवान्। अधुना तस्य सहपाठिन: तस्य उपहासं न कुर्वन्ति स्म अपितु आदरं कुर्वन्ति स्म। सत्यम् एव अस्ति– 'अभ्यास एव अस्ति परमो गुरुः।' pls tell meaning of this.
Answers
Answered by
8
Answer:
It is a sanskrit story , like paragraph writing.
sorry I don't know the meaning as I know only basic sanskrit.
I wish someone will sure help u with this ;)
Explanation:
hope it's helpful to u ;)
Answered by
0
Answer:
it is a Sanskrit Story
Just ask your teacher about the meaning
Similar questions