लाल बहािरुशास्त्री जी केदकस गणु केकारण भारिीय गवविहससू करिेह?ैं
Answers
लाल बहािरुशास्त्री जी केदकस गणु केकारण भारिीय गवविहससू करिेह?ैं
Answer:
9 June 1964 – 11 January 1966
राष्ट्रपतिः
सर्वपल्ली राधाकृष्णन्
कार्यालये
9 June 1964 – 18 July 1964
पूर्वगमः
Gulzarilal Nanda
पादानुध्यातः
Sardar Swaran Singh
कार्यालये
4 April 1961 – 29 August 1963
प्रधानमन्त्री
जवाहरलाल नेह्रू
Explanation:
पूर्वम् आङ्लशासिते भारतदेशे, संयुक्तप्रान्तेषु,[[मुघल्-सराई|मुघल्-सराई इत्यत्र दम्पती शारदा श्रीवास्तवप्रसादः रामदुलारी च आस्ताम् । तयोः पुत्रः लालबहादूरः १९०४ तमे वर्षे अक्टोबर्मासस्य २ दिनाङ्के जन्म प्राप्तवान् ।[२] श्रीमान् शारदाप्रसादः आदौ विद्यालये शिक्षकः आसीत् । अनन्तरम् अलाहाबादे राजस्वकार्यालये सः लिपिकारः अभवत् । यदा शिशुः त्रिमासीयः आसीत् तदा सः मातुः अङ्कात् च्युतः सन् गङ्गानद्याः तीरे कस्यापि गोपालकस्य कण्डोले पतितः । सन्तानहीनः सः गोपालकः अयं देवस्य प्रसादः इति मत्वा तं शिशुं स्वगृहम् अनयत् । लालबहादूरस्य पितरौ आरक्षककार्यालये अभियोगम् अकुरुताम् । रक्षकाश्च तं शिशुम् अन्विष्य तयोः कृते प्रत्यर्पयन् ।
यदा सः सार्धैकवर्षीयः जातः तदा तस्य पिता दिवङ्गतः । तस्य माता तं भगिनीभ्यां सह पितुः गृहं नीत्वा तत्रैव अवसत् । दशवर्षपर्यन्तं लालबहादूरः स्वमातामहस्य हजारीलालमहोदयस्य गृहे न्यवसत् । मुघल-सराई मध्ये सः चतुर्थकक्ष्यापर्यन्तम् अपठत् । अग्रिमाध्ययनाय सः वारणासीम् अगच्छत् । तत्र सः मातुलेन सह न्यवसत् । हरिश्चन्द्र-उच्च-पाठशालां प्राविशत् च । एकदा वाराणस्यां गङ्गायाः अपरतीरे स्थितं प्रदर्शनं द्रष्टुं सः मित्रैः सह अगच्छत् । ततः गृहं प्रतिनिवर्तितुं धनाभावकारणतः नौकाशुल्कं दातुम् असमर्थः . मित्रेभ्यः धनं याचितुं न इच्छन् सः नद्यां कूर्दित्वा अपरतीरं प्राप्तवान् ।
बाल्यकाले पुस्तकपठनं तस्मै रोचते स्म । गुरुनानकस्य श्र्लोकेषु तस्य महती अभिरुचिः आसीत् । भारतीयराष्ट्रवादी, समाजशोधकः स्वतंत्रतासेनानी बालगङ्गाधरतिलकः तस्य दृष्ट्या पूजार्हः आसीत् । तन्मध्ये वाराणस्यां गान्धिमहात्मनः वचनेभ्यः नितरां प्रभावितः सः आत्मनः जीवितं राष्ट्रसौवायै समर्पितवान् ।[३] सः 'श्रीवास्तव' इत्येतत् स्वकुलस्य नाम अपि त्यक्तवान् यतः सः जातिवादस्य विरोधी आसीत् । १९२९ मध्ये गान्धिमहात्मना आरब्धे असहकारान्दोलने सः भागम् अवहत् । तत्र सः गृहीतः चेदपि बालकः इति कारणतः सः मोचितः । अनन्तरं सः वाराणस्यां काशीविद्यापीठे राष्ट्रवादी इति एव आत्मनः नामलेखनं कृतवान् । तत्र वर्षचतुष्टयं यावत् अपठत् । तत्र डा भगवानदासेन दर्शनशास्त्रविषये कृतैः व्याखानैः सः अतीव प्रभावितः । काशीविद्यापीठेन १९२६ तमे वर्षे सः 'शास्त्री’ इत्यनेन उपाधिना पुरस्कृतः । यद्यपि अयम् उपाधिः विद्यापीठेन निवेशितः तथापि अयम् उपधिः तस्य नाम्ना सहितं संयुक्तः अभवत् । सः जनसेवकसंस्थायाः आजीवनसदस्यः अपि अभवत् तथा मुजपफरपुरमध्ये हरिजनानाम् उद्धाराय कार्यं कर्तुं प्रारभत । कालान्तरेण सः तस्याः संस्थायाः अध्यक्षः अभवत् । १९२७ तमे वर्षे शास्त्रिमहोदयः मिर्जापुरवासिनीं ललितादेवीं परिणीतवान् । यद्यपि तस्मिन् समये प्रभूतायाः वरदक्षिणायाः परम्परा आसीत् तथापि शास्त्रिमहोदयः केवलं एकं चक्रं खादीवस्त्रं वरदाक्षिणारूपेण स्वीकृतवान् । १९३० मध्ये गान्धिमहात्मनः लवणसत्याग्रहसमये सः स्वातंत्र्यसंग्रामाय आत्मानं समर्पितवान् । सः सार्धवर्षद्वयं कारागृहे आसीत् । एकदा यदा सः कारागृहे आसीत् तदा तस्य एका पुत्री अतीव रोगग्रस्ता अभवत् । अतः सः पञ्चदशदिनानि यावत् कारागृहात् मुक्तः । परन्तु तस्य गृहस्य प्राप्तेः पूर्वमेव तस्य पुत्री मृता । तस्याः दाहसंस्काराणां अनन्तरं सः स्वेच्छया विरामकालस्य समाप्तेः पूर्वमेव स्वयं कारागृहं प्रतिनिवर्तयामास । एकवर्षस्य अनन्तरं, यदा तस्य पुत्रः ज्वरेण तीव्रतया पीडितः अभवत् तदा सः एकसप्ताहं यावत् गृहं गन्तुम् अनुमतिम् अयाचत । अनुमतिः प्राप्ता किन्तु तस्य पुत्रः तु रोगात् मुक्तः न जातः । परिवारेण प्रार्थितोऽपि सः कारागृहाधिकारिभ्यः दत्तं वचनं पालयन् कारागृहं प्रत्यनिवर्तत ।
अनन्तरं १९३७ मध्ये उत्तरप्रदेशस्य लोकप्रतिनिधिसभायाः आयोजकसचिवरूपेण कार्यं कृतवान् । १९४० मध्ये एकवर्षं यावत् स्वातंत्र्यसंग्रामाय वैयक्तिकप्रोत्साहनं दत्तं इति कारणेन सः कारागृहं प्रेषितः । १९४२ मध्ये मुंबयीमध्ये गोवालियाटक् इत्यत्र आगस्ट्मासस्य अष्टमे दिनाङ्के महात्मा गान्धिवर्यः आंग्लैः भारतभूमिः त्याज्या इति धिया 'त्यजतु भारतम्’ इति धोषणं प्रसारितवान् । एकवर्षस्य कारावासस्य अनन्तरं बहिः आगतः शास्त्रीवर्यः अलाहाबादं प्रति प्रातिष्ठत(प्रस्थात् )। तत्र जवहारलालनेहरुमहोदयस्य स्वग्रामात् आनन्दभवनात् सः सप्ताहं यावत् स्वातंत्र्यसेनानीनाम् कृते सूचनाः प्रेषितवान् । कतिचिद्दिनेभ्यः पश्चात् सः पुनः गृहीतः १९४६ वर्षपर्यन्तं कारावासे क्षिप्तः । एवं शास्त्रिवर्यः कारावासे आहत्य नववर्षाणि यापयामास । कारावासदिनेषु सः पुस्तकानि पठन् कालक्षेपं कृतवान् । पाश्चात्यदार्शनिकानां, क्रान्तिकारिणां समाजसंशोधकानां कृतीः पठित्वा परिचयं प्राप्नोत् । सः मेरी क्यूरी इति शास्त्रज्ञायाः आत्मचरित्रमपि हिन्दी भाषया अनूदितवान् ।