World Languages, asked by arushreetrivedi, 1 month ago

महर्षिः व्यासदेवः भारतस्य अद्वितीयः महापुरुषः आसीत्। तस्य जन्म,
जीवनं, कर्माणि, साधना च सर्वमपि अद्भुतम् अवर्णनीयं च अस्ति। तस्य
पिता आसीत् महर्षिः पराशरः। तस्य माता आसीत् निषादकन्या सत्यवती।
यमुनानद्याः एकस्मिन् द्वीपे व्यासदेवस्य जन्म अभवत्। सः वर्णेन कृष्णः
आसीत्। अतः सः कृष्णद्वैपायनः इति नाम्ना प्रसिद्धः आसीत्। सः बदरिकाश्रमे
तपः अकरोत् अतः तस्य बादरायण इति नाम अपि आसीत्।ऋग्वेदः, यजुर्वेदः,
सामवेदः, अथर्ववेदः इति वेदानाम् एतादृशं चतुष्टयविभागं महर्षिः व्यासदेवः
एव अकरोत् । अतः सः वेदव्यासः इति नाम्ना अपि प्रसिद्धः अभवत् ।
महर्षिः व्यासदेवः एव महाभारतनामक - विशालग्रन्थस्य रचयिता ।
अस्य ग्रन्थस्य रचनायाः पूर्वं सः एकदा अचिन्तयत् – “अहं तु ग्रन्थस्य रचनां
कर्तुं शक्नोमि, किन्तु अस्य लेखनं कः करिष्यति ।” अतः सः बहुविचारं कृत्वा
श्रीगणेशदेवस्य निकटम् अगच्छत् तम् अकथयत् च “भगवन् ! अहं
महाभारतनामकग्रन्थरचनां कर्तुम् इच्छामि किं भवान् एतस्य लेखनकार्ये मम
सहायतां कर्तुं पारयिष्यति?" श्रीगणेशः तं प्रत्यवदत् - “आम् अवश्यं कर्तुं
शक्नोमि। किन्तु आरम्भात् समाप्ति यावत् भवान् विना स्थगर्न​

Answers

Answered by muneerveluthurla
0

jsispdkdjmVhshsjs lsjsjdifioves whheosodMCjsjejeuriwosjehrheuw

Attachments:
Similar questions