मया गजूजरात essay in sanskrit
Answers
Answer:
भारतभूमिभागे देवभूमेः उत्तराखण्डस्य परमपुनीतायां हरिद्वारनगर्यां स्थितस्य उत्तराखण्डसंस्कृतविश्वविद्यालयस्य सेवकाग्रगण्येन मया शिक्षाविदां, संस्कृतानुरागिणां, शिक्षकाणाम्, अन्तेवासिनां, प्राशासनिकाधिकारिणां कर्मचारिणां च प्रीतिप्रमुखवचनपूर्वम् अभिनन्दनं विदधता हर्षविशेषातिरेकः अनुभूयते।
नगाधिराजस्य हिमालयस्य भगवत्याः भागीरथ्याश्चास्मिन् राज्ये युगयुगान्तरेभ्यः संस्कृतस्य संस्कृतेश्च विमला धारा प्रवहमाना राराजते। भारतीया संस्कृतिः हिमालयस्य गंगायमुनयोश्च संस्कृतिः इति समुद्घोष्यते। अद्यतः चतुर्दशवर्षपूर्वम् उत्तराखण्डराज्यस्य सर्वकारेण स्वीयां प्राचीनतमां प्रतिभूतिं संरक्षितुं संस्कृतसम्बद्धान् विविधान् समुज्ज्वलपक्षान् विश्वे जन-जनसमक्षं पूर्णया भव्यतया दिव्यतया च प्रकाशमानेतुमयं विश्वविद्यालयः संस्थापितः।
अस्माकं राज्यस्य राज्यपालाः, मुख्यमन्त्रिणः, संस्कृतशिक्षामन्त्रिणः संस्कृतभाषां विश्वपटले त्वरितगत्या प्रतिष्ठापयितुं समीहन्ते। श्रद्धेयाः कुलाधिपतिमहोदयाः एतदर्थं विश्वप्रसिद्धस्यास्य विश्वविद्यालयस्य निरुपमां भूमिकां यथार्थतो निर्धारयितुं समुत्सुकाः सन्ति।
अस्मिन् संस्कृतविश्वविद्यालये एतत्सम्बद्धमहाविद्यालयेषु च कार्यरतान् प्राचार्यान्, शिक्षकान्, शिक्षणेतरकर्मकरान्, छात्रान् संस्कृत-संस्कृत्यनुरागशीलान् बन्धुबान्धवांश्च साग्रहं सविनयं चानुरुन्धे यत्ते स्वीयस्य पुरुषार्थस्य, परिश्रमस्य, योग्यतायाः साधनायाश्च बलेन संस्कृतस्य पताकां हिमाद्रेः सर्वोत्तुंगे शिखरे सुप्रतिष्ठापयेयुरिति।
“ स्वागताभिनन्दन ”