mitra :- vibhakti olkha
Answers
तस्माच्चिरायुरिच्छत नृपेण मूर्खोऽनुचरो न रक्षणियः ।
कस्यचिद्राझो नित्यं वानरोऽतिभक्तिपरोऽङ्गसेवकोऽन्तःपुरेऽप्यप्रतिषिद्ध्प्रसरोऽतिविश्वासस्थानप्रभूत् ।
एकदा राझो निद्रागतस्य वानरो व्यजनं नीत्वा वायुं विदधति राझो वक्षःस्थलोपरि मक्षिकोपविष्टा । व्यजनेन मुहुर्मुहुर्निषिध्यमानापि पुनः पुनस्तश्रैथपविशति । ततस्तेन स्वभावचपलेन मूर्खेण वानरेण क्रुधेन सता तिक्ष्णं खड्गमादाय तस्या उपरि प्रहारो विहितः । ततो मक्षिका उड्डिय गता । तेन शितधारेणासिना राझो वक्षो द्विधा जातं, राजा मृतश्च ।
--
"A king wishing long life should never keep foolish servants."
A king had a monkey as his body-guard. He was very fond of the king, and as he was very much trusted by the king, he could go into the kings' bed room without being stopped by anyone.
Once when the king was sleeping the monkey started breezing the king with a fan. While doing this a fly came and sat on the king's chest. The monkey tried to ward off the fly with the fan. But the fly would come again and sit on the same place.
The monkey due to its foolish nature became angry, got a sharp sword and hit the fly to kill it. The fly flew away but, the king's chest was divided into two, and the king died.
कीलोत्पाटि वानरकथा -- The Wedge Removing Monkey
अव्यापारेषु व्यापारं यो नरः कर्तुमिच्छति ।
स एव निधनं यति कीलोत्पाटीव वानरः ॥
कसिंमश्चिन्नगराभ्याशे केनापि वणिक्पुत्रेण तरुषण्डमध्ये देवतायतनं कर्तुमारब्धम् । तत्र च ये कर्मकाराः स्थपत्यादयस्ते मध्याह्नवेलायामाहारार्थ नगरमध्ये गच्छन्ति ।
अथ कदाचिदानुषङगिकं वानरयुथमितश्चेतश्व परिभ्रमदागतम् । तत्रैकस्य कस्यचिच्छिल्पिनोऽर्धस्फ़ाटितोऽर्जुनवृक्ष्यदारुमयः स्तम्भः खदिरकीलेन मध्यानिहितेन तिष्ठति । एतस्मिन्नन्तरे ते वानरास्तरुशिखरपरासादशृङ्गदारुपर्यन्तेषु यथेच्छया क्रिडितुमारब्धाः ।
एकश्व तेषां प्रत्यासन्नमृत्युश्चापल्यात्तस्मिन्न्रर्धस्फ़ोटितस्तम्भे उपविश्य पाणिभ्यां कीलकं संगृह्य यावदुत्पाटयितुमारेभे, तावत्तस्य स्तम्भमध्यगतवृषणस्य स्वस्थानाच्चलितकीलकेन यद्वृत्तं तत्प्रागेव निवेदितम् ।
--
"Anyone who tries to poke into matters which are none of his business,
meets his end, just like the monkey who tried to remove the wedge."
Near the city limits, a temple was being built by the son of a business man. In the noon time, the carpenters working on that, used to go into the city for lunch.
One day suddenly a group of monkeys while roaming came to that place. One of those carpenters had put a wedge in middle of a half-cut arjuna tree log. The monkeys started playing with the trees and logs as they wished.
One of those monkeys whose death was near, sat on that half-cut log and started removing the wedge from that. As the wedge moved out, the monkey's hanging genitals went into the gaps of the log, got trapped and the monkey got killed.
काकी-कृष्णसर्प-कथा -- Tale Of The Crow And The Black Snake
उपायेन हि यत्कुर्यात्तन्न शक्यं पराक्रमैः ।
अस्ति कस्मिंश्चित्प्रदेशे महान् न्यग्रोधपादपः । तत्र वायसदम्पती प्रतिवसतः स्म । अथ तयोः प्रसवकाले वृक्षविवरान्निष्क्रम्य कृष्णसर्पः सदैव तदपत्यानि भक्षयति । ततस्तौ निर्वेदादन्यवृक्षमूलनिवासिनं प्रियसुहृदं शृगालं गत्वोचतुः -- "भद्र! किमेवंविधे सञ्जाते आवयोः कर्तव्यं भवति । एष तावद् दुष्टात्मा कृष्णसर्पो वृक्षविवरान्निर्गत्यावयोर्बालकान् भक्षयति । तत्कथ्यता तद्राक्षार्थं कश्चिदुपायः ।
उक्तञ्च" --
यस्य क्षेत्रं नदीतीरे, भार्या च परसङ्गता ।
ससर्पे च गृह वासः, कथं स्यात्तस्य निर्वृतिः ॥
"अस्माकमपि तत्रस्थितानां प्रतिदिनं प्राणसंशयः।"
स आह -- "नात्र विषये स्वल्पःअपि विषादः कार्यः । नूनं स लुब्धो नोपायमन्तरेण वध्यः स्यात् । (यतः--)
उपायेन जयो यादृग्रिपोस्तादृङ् न हेतिभिः ।
उपायज्ञः अल्पकायः अपि न शूरैः परिभूयते" ॥
वायस आह -- "भद्र! तत्कथय कथं स दुष्टसर्पो वधमुपैष्यति ?"
श्रगाल आह -- "गच्छतु भवान् कञ्चिन्नगरं राजाधिष्ठानम् । तत्र कस्यापिधनिनो राजामात्यादेः प्रमादिनः कनकसूत्रं हारं वा गृहीत्वा तत्कोटरे प्रक्षिप, येन सर्पस्तद् ग्रहणेन वध्यते"।
अथ तत्क्षणात् काकः काकी च तदाकर्ण्यात्मेच्छयोत्पतितौ । ततश्च काकी किञ्चिस्तरः प्राप्य यावत्पश्यति, तावत्तन्मध्येोकस्यचिद्गाज्ञोऽन्तःपुरं जलासन्नं न्यस्तकनकसूत्रं