Hindi, asked by riddhiag14, 8 months ago

नद्यास्तटे एको वृक्षोऽस्ति। वृक्षस्य समीपमेका शिलास्ति। वृक्षस्य शाखासु नीडाः सन्ति। नीडेषु विहगाः
वसन्ति। नीडाः विहगान् रक्षन्ति।
वृक्षस्याधो वानराः सन्ति। कपयो गृहं न रचयन्ति। ते सर्वदा इतस्ततः भ्रमन्ति। वृक्षाणामधः, शिलासु
गिरीणां गुहासु वा ते रात्रि पारं गच्छन्ति। एकस्मिन् दिवसे शीतं तान् पीडयति। ते शीतात्
त्राणायाग्निमिच्छन्ति। कुत्रापि ते अग्निं न विन्दन्ति। एको गुञ्जायाः फलानि पश्यति। गुञ्जायाः फलानि
रक्तानि सन्ति। अतः सः अग्नेः सदृशानि गुञ्जायाः फलान्यानयति। द्वितीयस्तानि गुञ्जायाः फलानि शिलायां
संहरति। ततस्ते सर्वे गुञ्जाफलानां परितः उपविशन्ति। अग्नेरिच्छया ते मुखैः तानि धमन्ति। किन्तु ते अग्नि न
विन्दन्ति। ते वानरा अनलाय वृथायासं कुर्वन्ति। तेषां शीतं न नश्यति। कपयो मूर्खाः सन्ति।
T7....Translate into Hindi​

Answers

Answered by bhadrak2020m
0

Answer:

sanskrit me mat likho Bhai Hindi me likho

Similar questions