India Languages, asked by sampreetsingh62, 1 year ago

nibandh on dusherra in Sanskrit

Answers

Answered by honeysingh96
4
आश्विनमासस्य शुक्लपक्षस्य दशमी विजयादशमी कथ्यते।
अयं वीराणां महोत्सवः अपि कथ्यते।
अस्मिन् दिवसे श्रीरामः रावणस्य वधमकरोत्।
रावणोपरि श्रीरामचन्द्रस्य विजयकारणात् एव अस्य उत्सवस्य प्रवर्तनम् अभवत्।
अस्मिन् अवसरे भारतीयाः शास्त्रपूजनं कुर्वन्ति।
अद्य नीलकण्ठपक्षिणः दर्शनं शुभ भवति।
अस्मिन् दिवसे भारतवर्षस्य नगरे-नगरे ग्रामे-ग्रामे च रामलीलायाः प्रदर्शनं भवति।
तत्र अधर्मस्य अहंकारस्य च प्रतीकरूपस्य रावणस्य अग्निदाहः भवति।
रामलीलां द्रष्टुं रामकथां च श्रोतुं सर्वत्र महान् जनसम्मर्दः एकत्र भवति
बंगालप्रान्ते अयं महोत्सवः दुर्गापूजारूपेण प्रचलितः अस्ति।
तस्मिन् अवसरे शक्तिरूपायाः सिंहवाहिन्याः दुर्गादेव्याः पूजा क्रियते।
अयमुत्सवः अन्यायस्योपरि न्यायस्य विजयं सूचयति।
जनाः इमम् उत्सवं पूर्णोत्साहेन मन्यन्ते।
Answered by abcxyz12
2
\mathcal{\huge{\purple{\star\:Hayy \: Mate...!! \:\star}}}


  <i>
विजयादशमी भारतीयानां पवित्रं पर्व भवति। एतत् पर्व आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ सम्पाद्यते। इयं तिथिः विजयसूचिका मन्यते। अस्मिन् दिवसे श्रीरामः रावणस्य निधनं कृत्वा विजयं प्राप्तवान्। अस्मिन्नेव दिवसे दुर्गा शुम्भं निशुम्भं च अमारयत्। एतत् दिनं विजयेन सम्बन्धितमस्ति। अतः एतत् दिनं विजयादशमी नाम्ना प्रसिद्धम्। 


यद्यपि अयमुत्सवः आश्विनमासस्य शुक्लपक्षस्य दशम्यां तिथौ मन्यते, तथापि उत्सवात् दशदिनपूर्वमेव रामकथायाः रामलीलायाः संकीर्त्तनादीनां च आयोजनं भवति। जनाः उत्साहेन रामलीलां पश्यन्ति। दशम्यां तिथौ रावणकुम्भकर्ण-मेघनादानां च अग्निसंयोगः क्रियते। सायंकाले रामलीलाक्षेत्रे लोकानां विपुलः समागमः भवति। 


तस्मिन् समये रामस्य लक्ष्मणस्य हनुमतः च वेशेन कलाकाराः तत्र आगच्छन्ति। हनुमान् च दशहरास्थानमागच्छति। हनुमता कृत्रिमा लंका दह्यते। उपस्थिताः जनाः श्रीरामस्य जयध्वनिं कुर्वन्ति। अयमुत्सवः अधर्मस्य उपरी धर्मस्य, असत्यस्य उपरि सत्यस्य, दुर्जनतायाः उपरि सज्जनतायाः विजयस्य प्रतीकमस्ति। वस्तुतः एषः उत्सवः परमपावनः अस्ति। 

  <b>
  <marquee> ❤️⭐I hope you mark as brainlist answer⭐❤️✨✨
Similar questions