nibhanad on mother in sanskrit guys help me as soon as possible because in Tuesday there is my exam. plss help me
Answers
Answer:
निबंध :
अस्मिन् संसारे माता पूज्या भवति। सर्वे जना: दुखेषु मातरमेव स्मरन्ति । माता स्वसन्ततिम् जनयति । सा स्वसन्ततिहेतो: जीवति । सा सन्तति सुखम् सर्वेपरि मानयति । माता भूमे: गुरुतरा। माता क्षमाशीला भवति । माता करुणाया: देवी भवति। माता आज्ञापालनम् अस्माकं कर्तव्यम् अस्ति । वयं कदापि तस्या: अपमानं न कुर्याम । माता स्नेहस्य ममतायाश्च मूर्ति: भवति । मातु: हृदये वात्सल्यम् भवति । सा स्वसन्तते: रुग्णावस्थाकाले भोजनम् , पानम्, शयनम् च अपि विस्मरति । अतएव संसारे मातु: स्थानम् सर्वेपरि अस्ति ।
हिंदी मे अनुवाद :
इस संसार में माता पूज्य होती है । सभी लोग दुखों में माता को ही याद करते हैं । माता अपनी सन्तान को पैदा करती है । वह अपनी सन्तान के लिए होती है। वह सन्तान सुख को सर्वेपरि मानती है । माता भूमि से बढ़कर है । माता शमाशील होती है। माता करुणा की देवी होती है । माता की अज्ञापलन हमरा कर्तव्य है । हमें कदापि उसका अपमान नहीं करना चाहिए । माता स्नेह और ममता की मूर्ति होती है। माता के हृदय में वात्सल्य होता है । वह अपनी सन्तान की बीमारी के समय खाना पीना भी भूल जाती है । अतः माता का स्थान संसार मे सर्वेपरि है ।
निबंध: :-
» अस्मिन् संसारे माता एव परम दैवतमस्ति। मातु: स्थान गृहणा तु कोऽपि न समर्थः। सर्वोत्कृष्ट स्थानं मातुरेव। सा तु स्वर्गादपि गरीयसी वर्तते। मातरधिक किमपि पूज्यं नास्ति। वेदेषु पुराणग्रंथेषु अपि मातुः महात्म्य वर्णितम्। पितुः आचार्यादपि माता श्रेष्ठा अस्ति। अत: सर्वप्रथमो अयमुपदेशः ‘मातृदेवो भव’ इति। पितदेवो भव, आचार्य देवो भव इत्यादिकाः उपदेशाः पश्चादागच्छन्ति।
» सन्ततिपालने माता किं किं न करोति। सा अनेकानि कष्टानि सहते। शैशवे पुत्रस्य कारणे रात्रौ अपि जागरणं करोति। स्वयं दु:खं सहते, किन्तु पुत्राय सर्वं सुखं यच्छति। माता अतीव पुत्रवत्सला अस्ति। सा एव बालकस्य प्रथम: गुरु: अपि भवति। विद्यालयगमनात् प्रागेव सा बालकं स्नेहेन शिक्षयति। महाभारते महर्षिणा व्यासेनापि उक्तं, 'नास्ति मातृसमो गुरुः।‘
» स्नेहपरायणा, साधुस्वभावा माता बहूनापि मूल्येन लब्धुं न शक्यते। 'दीवार' नाम हिन्दी चित्रपटे अपि मातु: महत्त्वं दर्शितम्। तत्र अयं संवाद: लोकप्रियः अभवत, मम् समीपे धनमस्ति, वाहनमस्ति, गृहमस्ति, त्वत् समीपे किमस्ति? तदा नायक: वदति, ‘मम समीपे माता अस्ति।‘
» एवं मातुः महत्त्वं सर्वेः स्वीकृतम्। सुप्रसिद्ध मातृभक्तं श्रवणकुमारं को न जानाति। स्वमातृभक्त्या सः अमरः जातः।
भगवतः शंकराचार्यस्य मातृभक्तिः सर्वविदिता एव। अस्य मातभक्ति, अलौकिकी आसीत्। आधुनिके काले अपि अनेके मातृभक्ताः सन्ति।
» एतत् कथितं यत् पुत्र: कुपुत्रः भवति, परन्तु माता कदापि कुमाता न भवति। यथा- ‘कुपुत्रो जायते क्वचिदपि कुमाता न भवति' इति।
» मातुः माहात्म्यं सर्वाधिकं वर्तते। सा परमकल्याणी अस्ति। प्रभुरामचन्द्रेणापि कथितं,’ जननी जन्मभूमिश्च स्वर्गादपि गरीयसी।‘ अतः एतद् अस्माकं परम् कर्तव्यम् यत् अस्माभिः मातृभक्तिः अवश्यमेव विधेया।
@MrProxy