पुरा गुरुद्रोणाचार्यस्य आश्रमे धृतराष्ट्रपुत्राः कौरवाः
पाण्डुपुत्राः पाण्डवाः च अन्यैः शिष्यैः सह शिक्षा
धनुर्विद्या च गृह्णन्ति स्म।
एकदा गुरुः द्रोणाचार्यः स्वशिष्यान् परीक्षितु तान्
आहूयावदत्
"भो शिष्याः! अद्य लक्ष्यभेदनपरीक्षा
अस्ति। अतः यूयं परीक्षायै तत्पराः भवत।" सर्वे
शिष्याः अवदन्-"यथा गुर्वादेशः।"
द्रोणाचार्यः काष्ठस्य चटकामेका वृक्षे संस्थाप्य
तदक्षि वेधाय सर्वान् शिष्यान् एकैकं कृत्वा अपृच्छत्। सः युधिष्ठिरम् अवदत् - "युधिष्ठिर! धनुः गृहीत्वा लक्ष्य
पश्य। वृक्षे किं पश्यसि?" युधिष्ठिरः अवदत्- “गुरुदेव! अहं तु वृक्षस्य शाखा: पश्यामि।" तदन्तर भीमम् आहूय
एष एवापृच्छत्। भीमः प्रत्यवदत् सः तु चटकया सह पत्राणि अपि पश्यति। एवं अर्जुनमन्तरा ते सर्वे वृक्ष, शाखा:,
पत्राणि, चटका एव पश्यन्ति इति अवदन्।
अन्ततः गुरुः अर्जुनं चटका वेधाय आदिशत् अपृच्छत्
च-"वृक्षे चटकाया: अपरं त्वं किं पश्यसि?"
अर्जुनोवाच-"गुरुवर! चटकायाः अक्षि अन्तरेण
किमपि न पश्यामि।" इति कथयित्वा चटका
लक्ष्यं कृत्वा बाणम् उदसृजत्। द्रोणाचार्य: अर्जुन
हर्षेण आलिङ्गत् अवदत् च-"त्वमेव मम प्रियः
शिष्यः असि।"
जीवने सफलतायाः आधारस्तम्भः लक्ष्यनिर्धारणम्
एव वर्तते। लक्ष्य विना जीवनं व्यर्थम्। अत:
लक्ष्यनिर्धारणे एकाग्रता आवश्यकी। ये नरा: लक्ष्य
निर्धारयन्ति ते एव सफलाः भवन्ति।
96
लोभः पापस्य कारणम्।
Attachments:
Answers
Answered by
0
Answer:
aap ka bewakoof bana diya gaya hai....
Similar questions
Social Sciences,
2 months ago
Math,
2 months ago
Math,
5 months ago
History,
11 months ago
Social Sciences,
11 months ago